पृष्ठम्:शङ्करदिग्विजयः.djvu/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
124
[ द्वादशः
श्रीमच्छङ्करदिग्विजये

अष्टोत्तरत्रिंशति याः कलास्ताः स्वर्ध्या: कलाः पञ्च निवृत्तिमुख्याः ।
तास /मुपर्यम् तवाङ्घ्रपद्मं विद्योतमानं विबुधा भजन्ते ॥३१

कालाग्निरूपेण जगन्ति दग्ध्वा सुधात्मनाऽऽप्लान्य समुत्सृजन्तीम् ।
ये त्वामवन्तीममृतात्मनैव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥३२

ये प्रत्यभिज्ञामतनगरविज्ञा धन्यास्तु ते माग्विदितां गुरूक्तया ।
सैवाहमस्मीति समाधियोगात् त्वां प्रत्यभिज्ञाविषयं विदधुः ॥३३

आधारचक्रे च तदुत्तरस्मिन्नाराधयन्त्यैहिकभोगलुब्धाः ।
उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराद्ध हिस्ते ॥३४

अनाहते देवि भजन्ति ये त्वामन्तः स्थितिस्त्वन्नगरे तु तेषाम् ।
शुद्धाज्ञयोर्ये तु भजन्ति तेषां क्रमेण सामीप्यसमानभोगौ ॥३५

सहस्र ध्रुवमण्डलाख्ये सरोरुहे खामनुसंदधानः ।
चतुर्विधैक्यानुभवास्तमोह: सायुज्यमम्बाञ्चति साधकेन्द्रः ॥३६

श्रीचक्रषट्चक्रकयोः पुरोऽथ श्रीचक्रमन्वोरपि चिन्तितैक्यम् ।
चक्रस्य मन्त्रस्य ततस्तवैक्यं क्रमाइनुध्यायति साधकेन्द्रः ॥३७

इति तां वचनैः मपूज्य भैक्षौदनमात्रेण स तुष्टिपान कृतार्थः ।
बहुसाधकसंस्तुतः कियन्तं समयं तत्र निनाय शान्तचेताः ॥ ३८

श्रयति स्म ततोऽग्रहारकं श्रीब/लिसंज्ञं स कदाचन स्वशिष्यैः ।
अनुगे हहुताग्निहोत्रदुग्ध पसरत्पावनगन्धलोभनीयम् ॥३९

यतोऽपमृत्युर्व हिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा ।
दृष्ट्वा द्विजाती निजकर्मनिष्ठान दुरान्निषिद्धं त्यजतोऽप्रमत्तान् ॥४०

यस्मिन् सहस्र द्वितयं जनानामग्याहितानां श्रुतिपाठकानाम् ।
वसत्यवश्यं श्रुतिचोदितासु क्रियासु दक्षं मथितानुभावम् ॥ ४१

मध्ये वसन् यस्य करोति भूषां पिनाकपाणिगिरिजासहाय: ।
हारस्य यष्टेस्तरलो यथा वे रात्रेरिवेन्दुर्गगनाधिरूढः ॥ ४२