पृष्ठम्:शङ्करदिग्विजयः.djvu/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
130
[ त्रयोदशः
श्रीमच्छङ्करदिग्विजये

यः सार्वलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः ।
कर्मैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशिवेति ॥

प्रत्येकमस्य मलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता ।
व्यासो मुनिजैमिनिरस्य शिष्यस्तत्पक्षपाती प्रलयावलम्बी ॥ ८

गुरोच शिष्यस्य च पक्षभेदे कथं तयोः स्याद्गुरुशिष्यभावः ।
तथाऽपि यद्यस्ति स पूर्वपक्षः सिद्धान्तभावस्तु गुरूक्त एव ॥ ९

आ जन्मनः स खलु कर्मणि योजितात्मा कुर्वन्नवस्थित इहानिशमेव कर्म ।
ब्रूते परांच कुरुतावहिताः मयत्नात् स्वर्गादिकं सुखमवाप्स्यथ कि वृथाध्वे ॥

एवंविधेन क्रियते निबन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके ।
भष्यं परं कर्मपरं स योक्ष्यते मा च्यावि मूलादपि वृद्धिमिच्छता ॥ ११

संन्यासमप्येष न बुद्धिपूर्वकं व्यधत्त वादे विजितो वशो व्यधात् ।
तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ॥ १२

यः शक्रुयात् कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति ।
यद्यस्ति संन्यासविधौ दुराग्रहो जात्यन्धमू कादिरमुष्य गोचरः ॥ १३

एवं सदा भट्टमतानुसारिणो ब्रुवन्त्यसौ तन्मतपक्षपातवान् ।
एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निर्वन्धनमत्र किञ्चन ॥ १४

पुरा किलास्मासु सुरापगाया: पारे परस्मिन विचरत्सु सत्सु ।
आकारयामास भवानशेषान् भक्ति परिज्ञातुमित्रास्मदीयाम् ॥ १५

तदा तदाकर्ण्य समाकुलेषु नावर्यमस्माप्सु परिभ्रमत्सु ।
सनन्दनस्त्वेष वियत्तटिन्या झरीम भिवस्थित एव तूर्णम् ॥ १६

अनन्यसाधारणमस्य भावमाचार्यवर्ये भगवत्यवेक्ष्य ।
तुष्टा त्रिवर्मा कनकाम्बुजानि मादुष्करोति स्म पदे पदे च ॥१७

पदानि तेषु प्रणिधाय युष्मत्सकाशमागाद्यदयं महात्मा ।
ततोऽतितुष्टो भगवांश्चकार नाम्ना तमेनं किल पद्मपादम् ॥१८