सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये ।
न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि नजदीक्षः ॥४३
आदिश्येत्यं शिष्यस यतीन्द्रः मोबाचेत्थं नुनभिक्षु रहस्तम् ।
भाष्ये भिक्षो मा कृथा वार्तिकं त्वं नेमे शिष्या: सेहिरे दुर्विदग्धाः ॥४४
तात्पर्य ते गे हिधर्मेषु दृष्टा तत्संस्कारं सांगतं शङ्कमानाः ।
भाष्ये कृत्वा वार्तिकं याजयेत्स भाष्ये माहुः स्वीयसिद्धान्तशेषम् ॥ ४५
नास्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः ।
द्वारि द्वाः स्थैर्वारिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ॥४६
इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनलपे ।
स्वातन्त्र्याचं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥ ४७
विद्वन् यद्वत्प्रत्यय: स्यादमीषां शिष्याणां नो ग्रन्थसंदर्शनेन ।
इत्युक्त्वेमं वार्तिकं सूत्रभाष्ये नाभूद्धाहेत्याप खेदं च किश्चित् ॥ ४८
शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा-
वेनं स्वतन्त्रकृतिनिर्मितये न्ययुङ्ग ।
नैष्कर्म्यसिद्धिम चिरा द्विदघरस चेत्थं
न्याय्याम विन्दत सुरेश्वरदेशिकाख्याम् ॥४९
नैष्कर्म्यसिद्धिमथ तां निरवद्ययुक्ति निष्कर्मतत्त्व विषयावगतिप्रधानाम् ।
आद्यन्तहृव्यपदबन्धवतीमुदारामा यन्तमैक्षततरां परितुष्टचेताः ॥५०
ग्रन्थं दृष्ट्वा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् ।
तेषां चाऽऽसीत्मत्ययस्तद्वदस्मिन् यच्चान्यस्तत्त्वविद्यः स नेति ॥५१
यत्राथापि श्रूयते मस्करीन्द्रैनिंष्कर्मात्मा यत्र नैष्कर्म्यसिद्धिः ।
तन्नाम्नाऽयं वधे ग्रन्थवर्यस्तन्माहात्म्यात सर्वलोकातोऽभूत् ॥ ५२
आचार्यवाक्येण विधित्सितेऽस्मिन् विघ्नं यदन्ये व्यधुरुत्ससर्ज ।
शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम ॥ ५३
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १३]
133
ब्रह्मविद्याविचारः