गृहोपकण्ठेषु च वः श्मशानमद्यमभृत्यस्त्विति ताञ्शशाप ।
अद्यापि तद्देशभवा न वेदमधीयते नो यमिनां च भिक्षा ॥५०
तदा प्रभृत्येव गृहोपकण्ठेष्वासीच्छ्रमशानं किळ हन्त तेषाम् ।
महत्सु धींपूर्वकृतापराधो भवेत् पुनः कस्य सुखाय लोके ॥५१
शान्तः पुमानिति न पीडनमस्य कार्य
शान्तोऽपि पीडनवशात् ऋषमुद्हेत् सः ।
शीत: सुखोऽपि मथितः किल चन्दनद्रु-
स्तीव्र हुताशजनको भवति क्षणेन ॥४२
यद्यप्यशास्त्रीयतया विभाति तेजस्विनां कर्म तथाऽप्यनिन्द्यम् ।
विनिन्द्यकृत्यं किल भार्गवस्य ददुः स्वपुत्रान् कतिचिकाय ॥५३
इति स्वजननीपसौ मुनिजनैरपि प्रार्थितां
पुनः पतनवर्जितामतनुसौख्यसंदोहिनीम् ।
यतिक्षितिपतिर्गतिं वितमसं स नीत्वा तत-
स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥५४
अथ तत्सहायजलजाङ्मयुपागमेच्छुरभीप्सितेऽत्र विललम्ब एषक: ।
जलाजा त्रिरथ पुरा निजज्ञया कृतवानुदीच्यवहुतीर्थसेवनम् ॥ ५५
आससाद शनकै दिशे मुनिर्यस्य जन्म वसुधाघटी स्मृता ।
सा श्रुतिः सकलरोगनाशिनी योऽपिवज्जल धिमेक बिन्दुवत् ॥५६
अद्राक्षीत्सुभगा हिभूषिततनुं श्रीकालहस्तीश्वरं
लिसन्निहितं दधानमनिशं चान्द्रीं कलां मस्तके ।
पार्वत्या करुणारसाईमनसाऽऽश्लिष्टं प्रमोदास्पदं
देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनिः ॥५७
स्नात्वा सुवर्णमुखरी सलिलाशयेऽन्तर्गत्वा पुनः प्रणपति स्म शिवं भवान्या ।
आनर्च भावकुसुमैर्मनसा नुनाव स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥
लब्ध्वाऽनुज्ञां तज्ज्ञराट् कालहस्तिक्षेत्रात काञ्चीक्षेत्रमागात् पवित्रम् ।
संसाराधि संतितीर्षोः प्रसिद्धं वृद्धा: पाहुर्यद्धि लोके यमुष्प्रिन् । ५९
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १४]
141
पद्मपादतीर्थयात्वावर्णनम्