पृष्ठम्:शङ्करदिग्विजयः.djvu/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
144
[ चतुर्दशः
श्रीमच्छङ्करदिग्विजये

यथा हि पुष्पाण्यभिगम्य षट्पदा संमृद्ध सारं रसमेव भुञ्जते ।
तथा यति: सारमवाप्नुवन सुखं गृहागृहादोदनमेत्र भिक्षते ॥८३

यतेर्विरज्यात्मगतिः कलत्रं देहं गृहं संयतमेव सौख्यम् ।
विरक्तिभाजस्तनयाः स्वशिष्याः किमर्थनीयं यतिनो महात्मन् ॥ ८४

मनोरथानां न समाप्तिरिष्यते पुनः पुनः संतनुते मनोरथान् ।
दारानभी सुर्यतते दिवानिशं तान् प्राप्य तेभ्यस्तनयानभीप्सति ॥ ८५

अनाप्नुवन् दुःखमसौ सुतीव्रं प्राप्नोति चेष्टेन वियुज्यते पुनः ।
सर्वात्मना कामवशस्य दुःखं तस्माद्विरक्तिः पुरुषेण कार्या ॥ ८६

विरक्तिमूलं मनसो विशुद्धि तन्मूलमाहुर्महतां निषेत्राम् ।
भवादृशास्तेन च दूरदेशे परोपकाराय रसामटन्ति ॥८७

अज्ञातगोत्रा विदितात्मतत्त्वा लोकस्य दृष्ट्या जडवद्विभान्तः ।
चरन्ति भूतान्यनुकम्पमानाः सन्तो यदृच्छोपनतोपभोग्याः ॥ ८८

चरन्ति तीर्थान्यपि संग्रहीतुं लोकं महान्तो ननु शुद्धभावाः ।
शुद्धात्म विद्याक्ष पितो रुपापास्तज्जुष्टमम्भो निगदन्ति तीर्थम् ॥ ८९

वस्तव्यमत्र कतिचिदिवसानि विद्वंस्त्वदर्शनं वितनुते मुदितादि भव्यम् ।
एष्य द्वियोगचकिता जनतेयमास्ते दुःखं गतेऽत्र भवितेति भवत्यसङ्गे ॥

कोशं क्लेशमलस्य लास्यगृहमप्युदंहसामलयं
पैशुन्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् ।
हिंसामांसलमाश्रिता घनघनाशंसानृशंसा वयं
वर्ज्य दुर्जनसङ्गमं करुणया शोध्या यतीन्दो स्वया ॥ ९१

संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि ।
इष्टसङ्गतिनिवृत्तिकालयोर्निर्विकारहृदयो भवेन्नरः ॥९२

मध्याहकाले क्षुधितस्तृषार्त: क मेऽसदातेति बदन्नुपैति ।
यस्तस्य निर्वापयिता क्षुदातें: कस्तस्य पुण्यं वदितुं क्षमेत ॥९३