पृष्ठम्:शङ्करदिग्विजयः.djvu/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
146
[ चतुर्दशः
श्रीमच्छङ्करदिग्विजये

 ससंरम्भाश्लिष्यत्सुफणितिवधूटी कुचतटी-
  पटीवत्पाटीरागरवनवपङ्काङ्कितहृदः ।
 तथाऽप्येते पूता यतिपतिपदाम्भोजभजन-
  क्षणक्षीणक्लेशा: सदयहृदयाभाः सुकृतिनः ॥ १०६

संदिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैव गेहे ।
पप्रच्छेनं मातुलो भुक्तवन्तं किंस्विच्छन्नं पुस्तकं शिष्यहस्ते ॥ १०७

टीका विद्वन् भाष्यगेति ब्रवाणं तां देहीति प्रोचिषे दत्तवांश्च ।
अद्राक्षीत्तां मातुलस्तस्य बुद्धि दृष्ट्वाऽऽनन्दीत खेदमापच्च किञ्चित् ॥ १०८

प्रबन्ध निर्माणविचित्रनैपुण दृष्ट्वा प्रमोदं स त्रिवेद किश्चित् ।
मतान्तराणां किल युक्तिजालैर्निरुत्तरं बन्धनमालुलोके ॥ १०९

गुरोर्मतं स्वाभिमतं विशेषान्निराकृतं तत्र समत्सरोऽभूत् ।
साधुर्निबन्धोऽयमिति ब्रुवाणस्तं साभ्यनुयोऽपि कृताभिनन्दः ॥ ११०

सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेऽत्र जीवः ।
विद्वन् यद्वद्गोगृहादौ परेषां प्रीतिः पूर्णा नस्तथा पुस्तभारे ॥ ११९

इत्युक्त्वा तैर्मातुलं मस्करीश: शिष्यैर्हृष्यन् सेतमेष प्रतस्थे ।
मस्थातुः श्रीपद्मपादस्य जातं कष्टं चैण्यत्सुचनायै निमित्तम् ॥ ११२

वाम नेत्रं गन्तुरस्पन्दतैव बाहु: पुस्फोरापि वामस्तथोरुः ।
चुक्षावोचहन्त कश्चित्पुरस्तात्तत्सर्वे द्राग्ज्ञोऽगणित्वा जगाम ॥ ११३

गतेऽत्र मेने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन गुरुपक्षहानि: ।
दग्धेऽत्र जायेत महान मचारी नोक्त्या निराकर्तुमपि प्रभुत्वम् ॥ ११४

पक्षस्य नाशाद्दूहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् ।
एवं निरूप्य न्यदधाद्धुताशनं चुक्रोश चाग्निर्दहतीति मे गृहम् ॥ ११५

ऐतिह्यमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि ।
यावत्कृतं तावदिहास्य कर्तुः पापं ततः स्याद्विगुणं प्रवक्तः ॥ ११६