पृष्ठम्:शङ्करदिग्विजयः.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
150
[ चतुर्दशः
श्रीमच्छङ्करदिग्विजये

विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभावः ।
बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेकः ॥ १५२

इति देवमभिष्टुवन् विशिष्टस्तुतितोऽसौ सुरसद्मसंनिविष्टः ।
चिरकाल वियोगदीनचित्तैः शिरसा शिष्यगणैरथो ववन्दे ॥ १५३

गुरुणा कुशलानुयोगपूर्व सदयं शिष्यगणेषु सान्त्वितेषु ।
अतिदीनमनाः शनैरवादीदजहद्गद्गदिकं स पद्मपादः ॥१५४

भगवन्नभिगम्य रङ्गनाथं पथि पद्माक्षमहं निवर्तमानः ।
बहुधाविहितानुनीतिनीतो बत पूर्वाश्रममातुलेन गेहम् ॥१५५

अहमस्य पुरो भिदावदेन्दोरपि पूर्वाश्रमवासनानुबन्धात् ।
अपठं भवदीयभाष्यटीकामजयं चात्र कृतानुयोगमेनम् ॥१५६

दग्धमुद्रमुखमुद्रण मन्त्रैर्ध्वस्त तर्कगुरुका पिलतन्त्रैः ।
वर्मितो निगमसारसुधाक्तैर्मातुलं तमजयं तव सूक्तैः ॥१५७

खडाखड्गविहारकल्पितरुजं काणादसेनामुखे
शस्त्राशस्त्रिकृतं श्रमं च विषमं पश्यत्पदानां पदे ।
यष्टीयष्टिभवं च कापिलबले खेदं मुने तावकै:
सक्तैयक्तिकवंशमौक्तिक मयैर्नाऽऽपद्यते वर्मितः ॥ १५८

अथ गूढहृदो यथापुरं मामभिनन्द्याऽऽ हितसस्त्रियस्य तस्य ।
अघिसम निधाय भाष्यटीकामहस्याऽऽयमशङ्कितो निशायाम् ॥ १५९

युगपर्ययनृत्यदुग्रफालज्वलनज्वालकरालकीलजालः ।
दहनोऽधिनिशीथमस्य धाम्ना बत टीकामपि भस्मसादकार्षीत् ॥ १६०

अदइत्स्वगृहं स्वयं हताशो विमतग्रन्थमसौ विदग्धुकामः ।
मतिमान्द्यकरं गरं च भैक्षे व्यघितास्येति विजृम्भते स्म वार्ता ॥ १६१

अधुना धिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति ।
विषमा पुनरीदृशी दशा नः किमु युक्ता भवदङ्घ्रि किङ्कराणाम् ॥ १६२