पृष्ठम्:शङ्करदिग्विजयः.djvu/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
152
[चतुर्दशः
श्रीमच्छङ्करदिग्विजये

नृप कालटिनामकाग्रहारा द्विजकर्मानधिकारिणोऽद्य शप्ताः ।
भवताऽपि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥ १७४

पद्माधौ प्रतिपद्य नष्टविकृतिं तुष्टे पुनः केरल-
क्ष्मीपालो यतिसार्वभौमसविधं प्राप्य प्रणम्याञ्जसा ।
लब्ध्वा तस्य मुखात् खनाटकवराण्यानन्दपाथोनिधौ
मज्जस्तत्पदपद्मयुग्ममनिशं ध्यायन् प्रतस्थे पुरीम् ॥ १७५

इति श्रीमाधवीये तत्तीर्थयात्राटनार्थकः ।
संक्षेपशङ्करजये सर्गोऽजनि चतुर्दशः ॥१४ ॥

आदितः श्लोकाः 1562

अथ पञ्चदशः सर्गः॥ १५ ॥

आचार्यकृतदिग्विजयवर्णनम् ॥

अथ शिष्यवरैर्युतः सहस्रैरनुयातः स सुधन्वना च राज्ञा ।
ककुभो विजिगीषुरेष सर्वाः प्रथमं सेतुमदारधीः प्रतस्थे ॥१

अभवत् किल तस्य तत्र शाक्तगिरिजार्चाकपटान्मधुपसक्तैः ।
निकटस्थवितीर्णभृरिमोदस्फुटरिङ्कस्पटुयुक्तिमान् विवादः ॥२

स हि युक्तिभरैविधाय शाक्तान् प्रतिवाग्व्याहरणेऽपि तानशक्तान् ।
द्विजजातिबहिष्कृताननार्यानकरोल्लोकहिताय कर्मसेतुम् ॥३

अभिपूज्य स तत्र रामनाथ सह पाण्डेयः स्ववशे विधाय चोलान् ।
द्रविडांश्च ततो जगाम काञ्ची नगरी हस्तिगिरेनितम्बकाञ्चीम् ॥ ४

सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् ।
अपवार्य च तान्त्रिकानतानीद्भगवत्याः श्रुतिसम्मतां सपर्याम् ॥५

निजपादसरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्ध्रान् ।
अनुगृह्य स वेङ्कटाचलेशं प्रणिपत्याऽऽप विदर्भराजधानीम् ॥६