मकरध्वज विद्विडाप्तिविद्वाञ्श्रमहृत्पुष्पसुगन्धवन्परुद्भिः।
अगरूद्भबधूपधूपिताशं स महाकालनिवेशनं दिवेश ॥७८
भगवान भिवन्द्य चन्द्रमौलि मुनिवृन्दैरभिवन्द्यपादपद्मः ।
श्रमहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरप्रभावः ॥७९
कवये कथयास्मदीयवार्तामिह सौम्येति स भट्टभास्कराय ।
विससर्ज वशवदाग्रगण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् ॥८०
अभिरूपकुलावतंसभूतं बहुधाव्याकृत सर्ववेदराशिम् ।
तपयन निरस्त दुःसपनं प्रतिपद्येत्थमुवाच वावदुकः ॥८१
जयति स्म दिगन्तगीतकीर्तिर्भगारयोगिचक्रवर्ती ।
प्रथयन् परमाद्वितीयतन्त्रं शमयंस्तत्परिपन्थिवादिदर्पम् ॥८२
स जगाद बुधाग्रणीर्भवन्तं कुमतोमेक्षितसूत्रवृत्तिजालम् ।
अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसन्धिम् ॥८३
तदिदं परिगृह्यतां मनीषिन् मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् ।
अथवाऽस्मदुदग्रतर्कवज्रपतिघातात् परिरक्ष्यतां स्वपक्षः ॥८४
इति तामवहेलपूर्ववर्णी गिरमाकर्ण्य तदा स लब्धवर्णः ।
यशसां निघिरीषदात्तरोपस्तमुवाच महसन् यतीन्द्र शिष्यम् ॥८५
ध्रुवमेष न शुश्रूवानुदन्तं मम दुर्वा दिवचस्ततीनुदन्तम् ।
परकीर्तिबिसाङ्करानदन्तं विदुषां सूर्यसु नानटत्पदं तम् ॥८६
मम वल्गति सृक्तिगुम्फटन्दे कणभुग्जल्पितमलपतामुपैति ।
कपिलस्य पलायते प्रलाप: सुधियां कैव कथाऽधुनातनानाम् ॥ ८७
इति वादिनमब्रवीत् सनन्दः कुशलोऽथैनमविज्ञ माऽवमंस्थाः ।
न हि दारितभूधरोऽपि टङ्कः प्रभवेद्वज्रमणिप्रभेदनाय ॥ ८८
स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदग्र्यः ।
सकलं तदवोचदानुपूर्व्या स महात्माऽपि यतीशमाससाद ॥ ८९
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १५]
159
आचार्यकृतदिग्विजयवर्णनम्