पृष्ठम्:शङ्करदिग्विजयः.djvu/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १५]
161
आचार्यकृत दिग्विजयर्णनम्

न च तत्र हि बाधकस्य सत्वादियमस्तु मक्तेर्न साऽस्त्यबाधात् ।
इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेच बाधकत्वात् ॥ १०२

अधिसुप्त्यपि चित्तवर्ति तत्स्यायदि चाज्ञानमिदं हृदाश्रितं स्यात् ।
तदिहास्ति न मानकरीत्या प्रकृतेर्हेश्य विशिष्ट निष्ठतायाम् ॥ १०३

ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिह्ननेति ।
प्रतिबन्धकशुन्यता तु सुप्तेः परमात्मैक्यगतः सतेति वाक्यात् ॥ १०४

न च तत्र च तत्स्थितिमतीति : सति संपद्य विदुर्न हीति वाक्यात् ।
श्रुतिर्ग| स्तदधिक्षिपत्यभावपतिपत्तेर्न च नित्रोऽत्र नेति ॥१०५

किमु नित्यम नित्यमेव चैतत्प्रथमो नेह समस्ति युक्त्यभावात् ।
अनिवर्तक सत्त्वतोऽस्य नान्त्यो न हि भिन्द्यादविरोधि चित्प्रकाशः ॥

न च तच्छमयेज्जड प्रकाशोऽप्यविरोधात् सुतरां जडत्वतोऽस्य ।
तदिहापतिबन्धकत्वमस्य प्रभवेत् किंविह तद्भ्रमाग्रहादि । १०७

इति चेदिदमीरय भ्रमः को मनुजोऽहं त्विति शेमुषीति चेन्न ।
अतिविस्मृतिशीलता तवाही गदितुः सर्वपदार्थसङ्करस्य ॥ १०८

प्रमितित्वमुपाश्रयन् प्रती तेरमुकः खण्ड इति स्वाशास्त्र सिद्धात् ।
भिद भिवयगत्तरत्वहेतो र्धियमेतां तु किमित्युपेक्षसे त्वम् ॥ १०९

अनुमानमिदं तथा च सिद्धं विपता धीः प्रमितिर्भिदाभिदत्वात् ।
इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥११०

ननु संहननात्मधी: प्रमाणं न भवत्येव निषिद्धयमानगत्वात् ।
इदमिति प्रतिपन्नरूप्यधीवत्सबला सत्प्रतिपक्षतेति चेन ॥ ११९

व्यभिचारयुतत्वतोऽस्य खण्ड: पशुरित्यत्र तदन्यधीस्थमुण्डे ।
इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमचात् ॥ ११२

ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् ।
इति चेन्न विवक्षितस्य हेतोर्व्याभिचारात् पुनरप्यमुत्र चैव ॥११३