पृष्ठम्:शङ्करदिग्विजयः.djvu/१७

पुटमेतत् सुपुष्टितम्

द्वितीयः सर्गः ॥ १ ॥

आचार्यजन्मादिकथनम् ॥

ततो महेशः किल केरलेषु श्रीमद्वृषाद्रौ करुणासमुद्रः ।
पूर्णानदीपुण्यतटे स्वयंभूलिङ्गात्मनाऽनङ्गधगाविरासीत् ॥ १

तच्चोदितः कश्चन राजशेखरः स्वप्ने मुहुर्दृष्टतदीयवैभवः ।
प्रासादमेकं परिकल्प्य सुप्रभं प्रावर्तयत्तस्य समर्हणं विभोः ॥

तस्येश्वरस्य प्रणतार्तिहर्तुः प्रसादतः प्राप्तनिरीतिभावः ।
कश्चित्तदभ्याशगतोऽग्रहारः कालव्यभिख्योऽस्ति महान्मनोज्ञः ॥ ३

कश्चिद्विपश्चिदिह निश्चलधीर्विरेजे विद्याधिराज इति विश्रुतनामधेयः ।
रुद्रो वृषाद्रिनिलयोऽवतरीतुकामा यत्पुत्रमात्मपितरं समरोचयत्सः ॥ ४

पुत्रोऽभवत्तस्य पुरात्तपुण्यैः सुब्रह्मतेजाः शिवगुर्वभिख्यः ।
ज्ञाने शिवो यो वचने गुरुस्तस्यान्वर्थनामाऽकृत लब्धवर्णः ॥ ५

स ब्रह्मचारी गुरुगेहवासी तत्कर्यकारी विहितान्नभोजी ।
सायंप्रभातं च हुताशसेवी व्रतेन वेदं निजमध्यगीष्ट ॥ ६

क्रियाद्यनुष्ठानफलोऽथबोधः स नोपजायेत विना विचारम् ।
अधीत्य वेदानथ तद्विचारं चकार दुर्बोधतरो हि वेदः ॥ ७

वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म ।
अपाठि मत्तः सषडङ्गवेदो व्यचारि कालो बहुरत्यगात्ते ॥ ८

भक्तोऽपि गेहं व्रज संपति त्वं जनोऽपि ते दर्शनलालसः स्यात् ।
गत्वा कदाचित्स्वजनप्रमोदं विधेहि मा तात विलम्बयस्व ॥ ९

विधातुमिष्टं यदिहापराह्णे विजानता तत्पुरुषेण पूर्वम् ।
विधेयमेवं यदिह श्व इष्टं कर्तुं तदद्येति विनिश्चितोऽर्थः ॥ १०

कालोप्तबीजादिह यादृशं स्यात्सस्यं न तादृग्विपरीतकालात् ।
तथा विवाहादि कृतं स्वकाले फलाय कल्पेत न चेद्वृथा स्यात् ॥