पृष्ठम्:शङ्करदिग्विजयः.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
164
[पञ्चदशः
श्रीमच्छङ्करदिग्विजये

अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते ।
सकलव्यवहारसङ्करत्वात्तदलं जीव निकाऽपि दुर्लभा ते ॥१३८

इति युक्तिशतैरमर्त्यकीर्तिः सुपतीन्द्रं तमतन्द्रितं स जित्वा ।
श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ ॥१३९

इति भास्करदुर्मतेऽभिभूते भगवत्पादकथासुधा प्रससे ।
घनवार्षिकवारिवाइजाले विगते शारदचन्द्रचन्द्रिकेव ॥१४०

स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् बाणमयूरदण्डिमुख्यान ।
शिथिलीकृत दुर्मताभिमानान्निजभाष्यश्रवणोत्सुकांचकार ॥१४१

प्रतिपद्य तु बाहूलिकान् महर्षी विनयिभ्य: प्रविवृण्वति स्वभाष्यम् ।
अवदन्नसहिष्णवः प्रवीणा: समये केचिदथाऽऽर्हताभिधाने ॥ १४२

ननु जीवमजीवमात्रत्रं च श्रितवत्संबरनिर्जरौ च बन्धः ।
अपि मोक्ष उपैषि सप्तसंख्यान्न पदार्थान् कथमेव सप्तभङ्गया ॥ १४३

कथयाऽऽहंत जीवमस्तिकार्य स्फुटमेवंविध इत्युवाच मौनी ।
अवदत्स च देहतुल्यमानो दृढकर्माष्टकवे टितश्च विद्वन् । १४४

अमहाननणुर्घटादिवत्स्यात्स न नित्योऽप च मानुषाच्च देहात् ।
गजदेहमयन्विशेन्न कृत्स्नं प्रविशेच्च प्लुषिदेहमप्यकृत्स्नः ॥ १४५

उपयान्ति च केचन प्रतीका महता संहननेन सङ्गमेऽस्य ।
अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसम: समश्रुतेश्च ॥१४६

उपयन्त इमे तथाऽपयन्तो यदि वर्ष्णेव न जीवतां भजेयुः ।
प्रभवे पुरनात्मनः कथं ते कथमात्मावयवाः प्रयन्तु तस्मिन् ॥१५७

जनितारहिता: क्षयेण हीना: समुपायान्त्यपयान्ति चाऽऽत्मनस्ते ।
अमुकोपचितः प्रयाति कृत्स्नं त्वमुचपचितः प्रयात्यकृत्स्नम् ॥

किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्धपत्या ।
वपुरुन्मथितं भवेत्तु पूर्वे बत कात्स्ये॑न वपुर्न चेतयेयुः ॥ १४९