पृष्ठम्:शङ्करदिग्विजयः.djvu/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
166
[पञ्चदशः
श्रीमच्छङ्करदिग्विजये

अभिभूय मुरारिमिश्रवर्य सहसा चोदयनं विजित्य वादे ।
अवधूय च धर्मगुप्त मिश्रं स्वयशः मौढमगापयत्स गौडान् ॥१६२

 पूर्व येन विमोहिता द्विजवरास्तस्यासतोऽरीन कलौ
  बुद्धस्य प्रबिभेद मस्करिवरस्तान् भास्करादीन् क्षणात् ।
 शास्त्राम्नायविनिन्दकेन कुधिया कूटप्रवादाग्रडा-
  निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ॥ १६३

 शाक्तैः पाशुपतैरपि क्षपणकै: कापालिकष्णवै-
  रप्यन्यैरखिलैः खिलं खलु खर्दुर्वादिभिर्वेदिकम् ।
 मार्ग रक्षितमुग्रवादिविजयं नो मानहेतोर्व्यधा-
  त्सर्वज्ञो न यतोऽस्य संभवति सम्मानग्रहग्रस्तता ॥१६४

 दिष्टे पङ्कजविष्टरेण जगतामाद्येन तत्सूनुभि -
  निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाचैरपि ।
 श्रौताद्वैतपथे परात्मभिदुरान् दुर्वादिनः कण्टकान्
  प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णताम् ॥ १६५

 शान्तिर्दान्तिविरागते ह्यपरतिः क्षान्तिः परैकाग्रता
  श्रद्धेति प्रथिताभिरेधिततनौ षड्वक्तवन्मातृभिः ।
 भिक्षुक्षोणिपतौ पिचण्डिलतरोच्चण्डातिकण्डूच्चल-
  त्पाखण्डासुरखण्डनैकरसिके बाधा बुधानां कुतेः ॥१६६

 यत्राऽऽरम्भजकाइला कलकलैलोकायतो विद्रतः
 काणा: काणभुजास्तु सैन्यरजसा सख्ख्यधीः ।
 युवा तेषु पलायितेषु सहसा योगा: सहैवाद्रवन्
  को वा वादिभटः पटुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥१६७

 उच्चण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापतेः
  पूर्व मण्डनखण्डने समुदभूयो डिण्डिमाडम्बरः ।
 जाता: शब्दपरम्परास्तत इमा: पाखण्डदुर्वादिना-
  मद्य श्रोत्रतटाटवीषु दधते दावानलज्वालताम् ॥१६८