पृष्ठम्:शङ्करदिग्विजयः.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १५]
167
आचार्यकृतदिग्विजयवर्णनम्

 बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्वितः
  कोणे द्राकणभुख्यलीयत तमःस्तोमातृतो गौतमः ।
 भग्नोऽसौ कपिल: पलायत ततः पातञ्जलाश्चाञ्जलिं
  चक्रुस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ॥१६९

 हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाः
  काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः ।
 गाढ बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः
  सेवन्ते तं विचित्रा यतिधरणिपतेः शरता वा दया वा ॥ १७०

 शान्त्याद्यर्णववाडवानल शिखा सत्याभ्रवात्या दया-
  ज्योत्स्नादर्शनिशाऽथ शान्तिनलिनीराकाशशाङ्कयुतिः ।
 आस्तिक्यद्रुपदावपावक नवज्वालावली सत्कथा-
  हंसीमावृडखण्ड दण्डिपतिना पाखण्डवाडमण्डली ॥१७१

 अद्वैतामृतवर्षिभिः पग्गुरुव्याहारधाराधरैः
  कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कुत्ततापत्रयैः ।
 दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसंपादितं
  शान्तं संपति खण्डिताश्च निविडाः पाखण्डचण्डातपाः ॥ १७२

 शान्तानां सुभटा: कपालिकपतदग्राहग्रहव्यावृताः
  काणादपतिहारिणः क्षपणकक्षोणीशवैतालिकाः ।
 सामन्ताच दिगम्बरान्वयभुवयार्वाकवंशांङ्करा
  नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ॥ १७३

इति सकलदिशासु द्वैतवार्तानिवृत्तौ स्वयमथ परितस्तारायमद्वैतवर्त्म ।
प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षं र विरिव तिमिरौघे संप्रशान्ते महः सहःस्वम् ॥

इति श्रीमाधवीये तत्तदाशाजयकौतुकी ।
संक्षेपशङ्करजये सर्गः पञ्चदशोऽभवम् ॥ १५ ॥
आदितः श्लोकाः 1736.