इत्या कथाब्रवीगौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्गुणौघान् ।
द्रष्टुं शान्तस्वान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित्तमासीत् ॥ ४८
कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनुःसुखार्का: ।
श्रुत्वेति गोविन्दमुखात्महृष्य दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥ ४९
इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाध्यमशेषमस्मै ।
विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यन्निदमब्रवीत्तम् ॥५०
मत्कारिकाभावविबोधितादृङ्माण्डूक्यभाष्यश्रवणोत्थहर्षः ।
दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्व ॥५१
स पाह पर्यायशुकर्षिमीक्ष्य भवन्तमद्राक्षम तिष्यपूरुषम् ।
वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ॥५२
तथेति सोऽन्तर्धिमपास्तमोहे गते चिरञ्जीविमुनावथासौ ।
वृत्तान्तमेतं स मुदाऽऽश्रवेभ्य: संश्रावयंस्तां क्षणदामनैषीत् ॥ ५३
अथ चुनधामुषसि क्षमीन्द्रो निर्वर्त्य नित्यं विधिवत्स शिष्यैः ।
तीरे निदिध्यासनहालसोऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥ ५४
जम्बूदीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मडलं भारताख्यम् ।
काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽसौ शारदा वागधीशा ॥ ५५
द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिर्देव्या गेहं यत्र सर्वज्ञपीठम् ।
यत्राऽऽरोहे सर्ववित्सज्जनानां नान्ये सर्वे यत्मवेष्टुं क्षमन्ते ॥५६
प्राच्या प्राच्यां पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीचीं प्रपन्नाः ।
सर्वज्ञास्तद्वारमुद्धाटयन्तो दाक्षा नद्धं नो तदुद्घाटयन्ति ॥ ५७
वार्तामुपश्रुत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् ।
काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम् ॥५८
द्वारं पिनद्धं किल दाक्षिणात्यं न सन्ति विद्वांस इतीह दाक्षाः ।
तां किंवदन्तीं विफलां विधातुं जगाम देवी निलयाय हृष्यन् ॥ ५९
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
172
[ षोडशः
श्रीमच्छङ्करदिग्विजये