पृष्ठम्:शङ्करदिग्विजयः.djvu/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
12
[प्रथमः
श्रीमच्छङ्करदिग्विजये

आजन्मनो गणयतो ननु तान्गताब्दान्माता पिता परिणयं तव कर्तुकामौ।
पित्रोरियं प्रकृतिरेव पुरोपनीतिं यद्ध्यायतस्तनुभवस्य ततो विवाहम् ॥

तत्तत्कुलीनपितरः स्पृहयन्ति कामं तत्तत्कुलीनपुरुषस्य विवाहकर्म ।
पिण्डप्रदातृपुरुषस्य ससन्ततित्वे पिण्डाविलोपमुपरि स्फुटमीक्षमाणाः ॥

अर्थावबोधनफलो हि विचार एष तच्चापि चित्रबहुकर्मविधानहेतोः।
अत्राधिकारमधिगच्छति सद्वितीयः कृत्वा विवाहमिति वेदविदां प्रवादः॥

सत्यं गुरो न नियमोऽस्ति गुरोरधीतवेदो गृही भवति नान्यपदं प्रयाति ।
वैराग्यवान्व्रजति भिक्षुपदं विवेकी नो चेद्गृही भवति राजपदं तदेतत् ॥

श्रीनैष्ठिकाश्रममहं परिगृह्य यावज्जीवं वसामि तव पार्श्वगतश्चिरायुः ।
दण्डाजिनी सविनयो बुध जुह्वदग्नौ वेदं पठन् पठितविस्मृतिहानिमिच्छन् ॥

दारग्रहो भवति तावदयं सुखाय यावत्कृतोऽनुभवगोचरतां गतः स्यात् ।
पश्चाच्छनैर्विरसतामुपयाति सोऽयं किं निह्नुषे त्वपनुभूतिपदं महात्मन् ॥

 यागोऽपि नाकफलदो विधिना कृतश्चेत्
  प्रायः समग्रकरणं भुवि दुर्लभं तत् ।
 दृष्ट्यादिवन्न हि फलं यदि कर्मणि स्यात्
  दिष्ट्या यथोक्तविरहे फलदुर्विधत्वम् ॥ १८

 निःस्वो भवेद्यदि गृही निरयी स नूनं
  भोक्तुं न दातुमपि यः क्षमतेऽणुमात्रम् ।
 पूर्णेपि पूर्तिमभिमन्तुमशक्नुवन्यो
  मोहेन शं न मनुते खलु तत्र तत्र ॥ १९

यावत्सु सत्सु परिपूर्तिरथो अमीषां साधो गृहोपकरणेषु सदा विचारः ।
एकत्र संहतवतः स्थितपूर्वनाशस्तच्चापयाति पुनरप्यपरेण योगः ॥ २०

एवं गुरौ वदति तज्जनको निनीषुरागच्छदत्र तनयं स्वगृहं गृहेशः ।
तेनानुनीय बहुलं गुरवे प्रदाप्य यत्नानिकेतनमनायि गृहीतविद्यः ॥ २१