क द्वैताद्वैतवार्ता क्षपणकविवृति: कापि पापण्डपण्ड-
ध्वान्तध्वंसैकभानोजयति यतिपतेः शारदापीठवासे ॥
ततो दिविषदध्वनि त्वरितमध्वराशावली-
धुरन्धरसमीरितत्रिदशपाणिकोणाहतः ।
अरुन्द्र हरिदन्तरं स्वरभरपतिसन्धुभि
र्घनाघनघनास्वप्रथमचन्धुभिर्दुन्दुभिः ॥९१
कचभरवहनं पुलोमजाया: कतिचिहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्पतोऽभ्यवर्षन् ॥९२
इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं
निजमतगुरुतायै नो पुनर्मानहेती: ।
कतिचन विनिवेश्याथर्थ्यमाश्रमादी
मुनिरथ बदरीं स पाप कैश्चित्स्व शिष्यैः ॥९३
दिवसान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्र निष्ठितेभ्यः ।
कृपया पदिशन्स्वसूत्रभाष्यं विजितत्याजितसर्वदर्शनेभ्यः ॥९४
नित्ररां यतिराडुडुराजकरप्रकरमचुरमसरस्त्रयशाः ।
स्वमयं समयं गमयन्त्रमयन्हृदयं सदयं सुधियां शुशुभे ॥९५
एवंमक रै: कलिकल्मषनैः शिवावतारस्य शुभैधरित्रैः ।
द्वात्रिंशदत्युज्ज्वल कीर्तिराशेः समा व्यतीयुः किल शङ्करस्य ॥९६
भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंस कैवल्यमूल्य
हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डिता पण्डितानाम् ।
सद्यो विद्यातिताऽसौ विषय विमथनमुक्ति पद्याऽनवद्या
श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ||९७
हन्ताशोभि यशोभरैस्त्रिजगती मन्दारकुन्देन्दुभा
मुक्ताहारपटी रहीरविहरनी हारतारानिभैः ।
कारुण्यामृतनिशरैः सुकृतिनां दैन्यानलः शुन्यतां
नीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ॥९८
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
176
[ षोडशः
श्रीमच्छङ्करदिग्विजये