पृष्ठम्:शङ्करदिग्विजयः.djvu/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः २]
13
आचार्यजन्मादिकथनम्

गत्वा निकेतनपसौ जननीं ववन्दे साऽऽलिङ्ग्य तद्विरहजं परितापमौज्झत् ॥
प्रायेण चन्दनरसादपि शीतलं तद्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥ २२

श्रुत्वा गुरोः सदनतश्विरमागतं तं तद्वन्धुरागमदथ त्वरितेक्षणाय ।
प्रत्युद्गमादिभिरसावपि बन्धुतायाः संभावनां व्यधित वित्तकुलानुरूपाम् ॥

वेदे पदक्रमजटादिषु तस्य बुद्धिं संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् ।
यस्याभवत्प्रथितनाम वसुन्धरायां विद्याधिराज इति सङ्गतवाच्यमस्य ॥

 भाट्टे नये गुरुमते कणभुङ्मतादौ
  प्रश्नं चकार तनयस्य मतिं बुभुत्सुः ।
 शिष्योऽप्युवाच नतपूर्वगुरुः समाधिं
  पिनोदितः स्मितमुखो हसिताम्बुजास्यः ॥ २५

वेदे च शास्त्रे च निरीक्ष्य बुद्धिं प्रश्नोत्तरादावपि नैपुणी ताम् ।
दृष्ट्वा तुतोषातितरां पिताऽस्य स्वतः सुखा या किमु शास्त्रतो वाक् ॥

कन्यां प्रदातुमनसो बहवोऽपि विप्रास्तन्मन्दिरं प्रति ययुर्गुणपाशकृष्टाः ।
पूर्वं विवाहसमयादपि तस्य गेहं संबन्धवत्किल बभूव वरीतुकामैः ॥ २७

बह्वर्थदायिषु बहुष्वपि सत्सु देशे कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म ।
कन्यामयाचत सुताय स विप्रवर्यो विप्रं विशिष्टकुलजं प्रथितानुभावः ॥

कन्यापितुर्वरपितुश्च विवाद आसीदित्थं तयोः कुलजुषोः प्रथितोरुभूत्योः।
कार्यस्त्वया परिणयो गृहमेत्य पुत्रीमानीय सद्म तनयाय सुता प्रदेया ॥

सङ्कल्पिताद् द्विगुणमर्थमहं प्रदास्ये मद्नेहमेत्य परिणीतिरियं कृता चेत् ।
अर्थं विना परिणयं द्विज कारयिष्ये पुत्रेण मे गृहगता यदि कन्यका स्यात् ॥

कश्चित्तु तस्याः पितरं बभाण मिथः समाहूय विशेषवादी ।
अस्मासु गेहं गतवत्स्वमुष्मै विगृह्य कन्यामपरः प्रदद्यात् ॥

तेनानुनीतो वरतातभाषितं द्विजोऽनुमेने वररूपमोहितः ।
दृष्टो गुणः संवरणाय कल्पते मन्त्रोऽभिजापाच्चिरकालभावितः ॥ ३२