पृष्ठम्:शङ्करदिग्विजयः.djvu/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः २
15
आचार्यजन्मादिकथनम्

भद्रे सुतेन रहितौ भुवि के वदन्ति नौ पुत्रपौत्रसरणिक्रमतः प्रसिद्धिः ।
लोके न पुष्पफलशुन्यमुदाहरन्ति वृक्षं प्रवाल समये फलितं विहाय ।।
इतीरिते पाह तदीयभार्या शिवारूपकल्पद्रुमपाश्रयावः ।
तत्सेवनानौ भविता सुनाथ फलं स्थिरं जङ्गमरूपमैशम् ॥ ४६
भक्तेप्सितार्थपरिकल्पनकल्पवृक्षं देवं भजाव कमितः सकलार्थसिद्धयै ।
तत्रोपमन्युमहिमा परमं प्रमाणं नो देवतासु जडिमा जडिमा मनुष्ये ॥ ४७
इत्थं कलत्रोक्तिमनुत्तमां च श्रुत्वा सुतार्थी प्रणतैकवश्यम् ।
इयेष सन्तोषयितुं तपोभिः सोमाघमूर्धानमुमार्धमीशम् ।।
 तस्योपधाम किल संनिहिताऽऽपगैका
  स्नात्वा सदाशिवमुपास्त जले स तस्याः ।
 कन्दाशनः कतिचिदेव दिनानि पूर्व
  पश्चात्तदा स शिवपादयुगाब्जभृङ्गः ॥ ४९
जायाऽपि तस्य विमला नियमोपतापैश्चिक्लेश कायमनिशं शिवमर्चयन्ती ।
क्षेत्रे वृषस्य निवसन्तमजं स भर्तुः कालोऽत्यगादिति तयोस्तपतोरनेकः ।।
देवः कृपापरवशो द्विजवेषधारी प्रत्यक्षतां शिवगुरुं गत आत्तनिद्रम् ।
प्रोवाच भोः किमभिवाञ्छसि किंतपस्ते पुत्रार्थितेति वचनं स जगाद विप्रः।।
देवोऽप्यपृच्छदथ तं द्विज विद्धि सत्यं सर्वज्ञमेकमपि सर्वगुणोपपन्नम् ।
पुत्रं ददान्यथ बहून्विपरीतकांस्ते भूर्यायुषस्तनुगुणानवदद द्विजेशः ॥
पुत्रोऽस्तु मे बहुगुणः प्रथितानुभावः सर्वज्ञतापदमितीरित आबभाषे ।
दद्यामुदीरितपदं तनयं तपो मा पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ।।
आकर्णयन्निति बुबोध स विपर्यस्तं चाब्रवी निजकलत्रमनिन्दितात्मा ।
स्वमं शशंस वनितामणिरस्य भार्या सत्यं भविष्यति तु नौ तनयो महात्मा ।।
तौ दम्पती शिवपरौ नियतौ स्मरन्तौ स्वमेक्षितं गृहगतो बहुदक्षिणानैः ।
संतl विप्रनिकरं तदुदीरिताभिराशीभिरापतुरनल्पमुदं विशुद्धौ ॥ ५५