पृष्ठम्:शङ्करदिग्विजयः.djvu/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
16
द्वितीयः
श्रीमच्छङ्करदिग्विजये

तस्मिन्दिने शिवगुरोरुपभोक्ष्यमाणे भक्ते प्रविष्टमभवकिल शैवतेजः ।
भुक्तानविप्रवचनादुपभुक्तशेष सोऽभुत साऽपि निजभर्तृपदाब्जभृङ्गी ॥
गर्भ दधार शिवगर्भमसौ मृगाक्षी गर्भोऽप्यवर्धत शनैरभवच्छरीरम् ।
तेजोऽतिरेकविनिवारितदृष्टिपातविश्व स्वेदिवसमध्य इवोग्रतेजः ॥ ५७
गर्भालसा भगवती गतिमान्यमीपदापेति नाद्भुतमिदं धरते शिवं या ।
यो विष्टपानि विभृते हि चतुर्दशापि यस्यापि मूर्तय इमा वसुधाजलाद्याः॥
संव्याप्तवानपि शरीरमशेषमेव नोपास्तिमाविरसकावकृतात्र कांचित् ।
यत्पूर्वमेव महसा दुरतिक्रमेण व्याप्तं शरीरमदसीयमनुष्य हेतोः ॥ ५९
रम्याणि गन्धकुसुमान्यपि गर्षिमस्यै नाधातुमैशत भरात्किमु भूषणानि ।
यद्यद्गुरुत्वपदमस्ति पदार्थजातं तत्तद्विधारणविधावलसा बभूव ॥ ६.
तां दौहृदं भृशमवाधत दुःशरारिः प्रायः परं किल न मुश्चति मुश्चतेऽपि ।
आनीतदुर्लभमपोहति याचतेऽन्यत्तच्चाप्यपोह्य पुनरर्दति साऽन्यवस्तु ।।
तां बन्धुताऽऽगमदुपश्रुतदोहदार्तिरादाय दुर्लभमनर्घ्यमपूर्ववस्तु ।
आखाद्य बन्धुजनदत्तमसौ जहर्ष हा. हन्त गर्भधरणं खलु दुःखहेतुः ।।
मानुष्यधर्ममनुसृत्य मयेदमुक्तं काऽपि व्यथा शिवमहोभरणे न वध्वाः ।
सर्वव्यथाव्यतिकरं परिहतुकामा देवं भजन्त इति तच्चविदां प्रवादः ।।
उक्ष्णा निसर्गधवलेन महीयसा सा स्वात्मानमैक्षत समूढमुपात्तनिद्रा ।
संगीयमानमपि गीतविशारदाढ्यैर्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥ ६४
 आकर्णयजय जयेति वरं दधाना
  रक्षेति शब्दमवलोकय मा दशेति ।
 आकर्ण्य नोत्थितवती पुनरुक्तशब्दं
  सा विस्मिता किल भृणोति निरीक्षमाणा ॥ ६५
नर्मोक्तिकृत्यामपि खिद्यमाना किञ्चापि चञ्चत्तरमञ्चरोहे ।
जित्वा मुदाऽन्यानतिहृद्यविद्यासिंहासनेऽसौ स्थितिमीक्षते स्म ॥ ६६