पृष्ठम्:शङ्करदिग्विजयः.djvu/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
18
[द्वितीयः
श्रीमच्छङ्करदिग्विजये

लोकत्रयी लोकदृशेव भावता महीधरेणेव मही सुमेरुणा ।
विद्या विनीत्येव सती सुतेन सा रराज तत्तादृशराजतेजसा ।।
सत्कारपूर्वमभियुक्तमुहूर्तवेदिविप्राः शशंसुरभिवीक्ष्य सुत्स्य जन्म ।
सर्वज्ञ एव भविता रचयिष्यते च शास्त्रं स्वतन्त्रमथ वागधिपांश्च जेता ।।
 कीर्ति स्वकां भुवि विधास्यति यावदेषा
  किं बोधितेन बहुना शिशुरेष पूर्णः ।
 नापृच्छि जीवितमनेन च तैर्न चोक्तं
  प्रायो विदन्नपि न वक्त्यशुभं शुभज्ञः ॥ ८०
तज्ज्ञातिबन्धृसुहृदिष्टजनाङ्गनास्तास्तं सूतिकागृहनिविष्टमथो निदध्युः ।
सोपायनास्तमभिवीक्ष्य यथा निदाघे चन्द्रं मुदं ययुरतीव सरोजवक्तम् ।।
तत्मृतिकागृहमवैक्षत न प्रदीपं तत्तेजसा यदवभातमभूत्क्षपायाम् ।
आश्चर्यमेतदजनिष्ट समस्तजन्तोस्तन्मन्दिरं वितिमिरं यदभूददीपम् ।
यत्पश्यतां शिशुरसौ कुरुते शमग्यं तेनाकृतास्य जनकः किल शङ्कराख्याम् ।
यद्वा चिराय किल शङ्करसंप्रसादाज्जातस्ततो व्यधित शङ्करनामधेयम् ।।
सर्व विदन्सकलशक्तियुतोऽपि बालो मानुष्यजातिमनुसृत्य चचार तद्वत् ।
बालः शनैर्हसितुपारभत क्रमेण सप्तुं शशाक गमनाय पदाम्बुजाभ्याम् ॥
बालेऽथ मञ्चे किल शायितेऽस्मिन्सतां प्रसन्नं हृदयं बभूव ।
संवीक्षमाणे मणिगुच्छवर्य विद्वन्मुखं हन्त विलीनमासीत् ॥ ८५
संताडयन्हन्त शनैः पदाभ्यां पर्यन्वर्य कमनीयशय्यम् ।
विभेद सद्यः शतधा समूहान्विभेदवादीन्द्रमनोरथानाम् ॥ ८६
वित्राणि वर्णानि वदत्यमुष्मिदैतिप्रवीरा दधुरेव मौनम् ।
मुदा चलत्यध्रिसरोरुहाभ्यां दिशः पलायन्त दशापि सद्यः ।। ८७
उदचारयदर्भको गिरः पदचारानतनोदनन्तरम् ।
विकलोऽभवदादिमात्तयोः पिकलोकश्वरमान्मरालकः ॥ ८८