बारियं क्रीडति कन्दुका द्यैर्जातक्षुधा गेहमुपैति दुःखात् ।
एकेति बाला गृहकर्म नोक्ता संरक्षणीया निजपुत्रितुल्या ॥ ६२
बालेयमङ्ग वचनैर्मृदुभिर्विधेया कार्या न रूक्षवचनैर्न करोति रुष्टा ।
के चिन्मृदूक्तिवशगा विपरीतभावाः केचिद्विहातुमनलं प्रकृतिं जनो हि ॥
कश्चिद् द्विजातिरधिगम्य कदाचिदेनामुद्वीक्ष्य लक्षणमवोचदनिन्दितात्म
मानुष्यमात्रजननं निजदेवभावेत्यस्माच्च वो वचनमुग्रमयोज्यमस्याम् ॥
सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिद्वदतो: कथायाम् ।
तत्साक्षिभावं व्रजिताऽनवद्या संदिश्य नावेवमसौ जगाम ॥६५
व बचनेन वाच्या स्नुषाभिरक्षाऽऽयतते हि तस्याम् ।
निक्षेपभूता तव सुन्दरीयं कार्या गृहे कर्म शनैः शनैस्ते ॥६६
बाल्येषु बाल्यात्सुलभोऽपराधः स नेक्षणीयो गृहिणीजनेन ।
वयं सुधीभूय हि सर्व एव पश्चाद्गुरुत्वं शनकैः मयाताः ॥६७
दृष्ट्वाऽभिधातुपनलं च मनोऽस्मदीयं
गेहाभिरक्षणविधौ न हि दृश्यतेऽन्यः ।
दृष्ट्वाऽभिधानफलमेव यथा भवेन्नो
ब्रूयात्तथेष्टजनता जननीं वरस्य ॥६८
वत्से त्वमद्य गमिताऽसि दशामपूर्वी तद्रक्षणे निपुणधीर्भव सुभ्रु नित्यम् ।
कुर्यान्न बालविहति जनतोपहास्यां सा नाविवापरमियं परितोषयेत्ते ॥
पाणिग्रहात्स्वाधिपती समीरितौ पुरा कुमार्याः पितरौ ततः परम् ।
पतिस्तमेकं शरणं व्रजानिशं लोकद्वयं जेष्यसि येन दुर्जयम् ॥७०
पत्यावभुक्तवति सुन्दरि मा स्म भुङ्क्ष्व याते प्रयातमपि मा स्म भवेद्विभूषा ।
पूर्वापरादिनियमोऽस्ति निमज्जनादौ वृद्धाङ्गनाचरितमेव परं प्रमाणम् ॥
रुष्टे धवे सति रुषेह न वाच्यमेकं क्षन्तव्यमेव सकलं स तु शाम्यतीत्यम् ।
तस्मिन्त्रसन्नवदने चक्रितेव वत्से सिध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥
पृष्ठम्:शङ्करदिग्विजयः.djvu/३२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
26
[ तृतीयः
श्रीमच्छङ्करदिग्विजये