पृष्ठम्:शङ्करदिग्विजयः.djvu/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
30
[ चतुर्थः
श्रीमच्छङ्करदिग्विजये

 वेदे ब्रह्मसमस्तदङ्गनिचये गायोपमस्तरकथा-
  तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने ।
 आसीज्जैमिनिरेव तद्वचनजप्रोद्धोधकन्दे समो
  व्यासेनैव स मूर्तिमानिव नवो वाणी विलासैरृतः ॥१९

 आन्वीक्षिक्यैक्षि तन्त्रे परिचितिरतुला कापिले काऽपि लेभे
  पीतं पातञ्जलाम्भः परमपि विदितं भावार्थतत्वम् ।
 यत्तैः सौख्यं तदस्यान्तरभवदमलाद्वैत विद्यासुखेऽस्मि-
  कूपे योऽर्थः स तीर्थे सुपयसि वितते हन्त नान्तर्भवेत्किम् ॥ २०

स हि जातु गुरोः कुले वसन्सवयोभिः सह मैक्षलिप्सया ।
भगवान्भवनं द्विजन्मनो धनहीनस्य विवेश कस्यचित् ॥२१


तमवोचत तत्र सादरं यतिवर्य गृहिणः कुटुंबिनी ।
कृतिनो हि भवादृशेषु ये वरिवस्यां प्रतिपादयन्ति ते ॥२२

विधिना खलु वञ्चिता वयं वितरीतुं वटवे न शत्रुमः ।
अपि मैक्षमकिञ्चनत्वतो विगिदं जन्म निरर्थकं गतम् ॥२३

इति दीनमुदीरयन्त्यसौ प्रददावामलकं व्रतीन्दवे ।
करुणं वचनं निशम्य सोऽध्यभवज्ज्ञाननिधिर्दयाईधीः ॥२४

स मुनिर्मुरभित्कुटुम्बिनीं पदचित्रैर्नवनीतकोमलैः ।
मधुरैरुपतस्थिवांस्तवैर्द्विजदारित्र्यदशानिवृत्तये ॥२५

अथ कैटभ जित्कुटुम्बिनी तटिंदुद्दामनिजाङ्गकान्तिभिः ।
सकलाच दिशः प्रकाशयन्त्यचरादाविरभूत्तदग्रतः ॥२६

अभिवन्द्य सुरेन्द्रवन्दितं पदयुग्मं पुरतः कृताञ्जलिम् ।
ललितस्तुतिभि: महर्षिता तमुवाच स्मितपूर्वकं वचः ॥२७