पृष्ठम्:शङ्करदिग्विजयः.djvu/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
38
[चतुर्थः
श्रीमच्छङ्करदिग्विजये

 दोषाणामनृतस्य कार्मणमसञ्चिन्तात ते र्निष्कुटं
  देहादौ मुनिशेखरोक्तिरतुलाऽहंकारमुत्कृन्तति ॥८५

 तथागतपथाहतक्षपणकप्रथालक्षण-
  प्रतारणहतानुवर्त्यखिलजीवसञ्जीवनी ।
 हरत्यतिदुरत्ययं भवभयं गुरूक्तिर्नृणा-
  मनाधुनिकभारतीजरठशुक्तिमुक्तामणिः ॥८६

 झंझामारुतवेलितामरधुनीकल्लोलकोलाहल -
  प्राम्भारकसगर्थ्यनिर्भरजरीजम्भद्रचोनिर्झरा: ।
 नैकालीकमतालिधूलिपटलीमर्मच्छिदः सद्गुरो-
  रुदुर्मतिघमदुर्मतिकृताशान्ति निकृन्तन्ति नः ॥८७

 उन्मीलन्नवम लिसौरभपरीरम्भ प्रियंभावुकाः
  मन्दारपरन्दबृन्द विलुउन्माधुर्यधुर्या गिरः ।
 उद्गीर्णा गुरुणा विपारकरुणावाराकरेणाऽऽदरात्
  सच्चेतो रमयन्ति हन्त मदयन्त्यामोदयन्ति द्रुतम् ॥८८

 धारावाहिसुखानुभूतिमुनिवाग्धरासुधाराशिषु
  क्रीडन्द्वैतिवचः सुकः पुनरनुक्रीडेत मुढेतरः ।
 चित्रं काञ्चनमम्बरं परिदधच्चित्ते विधत्ते मुहुः
  कञ्चित्कच्चर दुष्पटच्चरजरत्कन्थानुबद्धादरम् ॥८९

 तत्तादृक्षमुनिक्षपाकरवच: शिक्षासपक्षाशयः
  क्षारं क्षीरमुदीक्षते बुधजनो न क्षौद्रमाकांक्षति ।
 रूक्षां क्षेपयति क्षितौ खलु सितां नेक्षं क्षणं प्रेक्षते
  द्राक्षां नापि दिदृक्षते न कदलीं क्षुद्रां जिघृक्षयलम् ॥ ९०

 विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया
  क्षीरैः पात्रधियाऽर्पिता युधि जिताल्लुब्धा बलादिक्षुतः ।
 न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्विरां
  माधुर्यस्य समृद्धिरद्भुततरा नान्यत्र सा वीक्ष्यते ॥ ९१