इति विचिन्त्य स जातु मिमंक्षया बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीज्जलचरश्चरणे जलमीयुषः ॥६१
स च रुरोद जले जलचारिणा घृतपदो हियतेऽम्ब करोमि किम् ।
चलितुमेकपदं न पारये बलवता वितोरुमुखेन ह ॥६२
गृहगता जननी दुपावृणोत्परवशताप सरितम् ।
मम मृरे: प्रथमं शरणं धवस्तदनु मे शरणं तनयोऽभवत् ॥६३
सच मरिष्यति नक्रवशं गतः शिव न मेऽजनि हन्त पुरा मृतिः ।
इति शुशोच जनन्यपि तीरगा जलगतात्मजवक्तूगतेक्षणा ॥६४
त्यजति नूनमयं चरणं चलो जलचरोडम्ब तवानुमतेन मे ।
सकलसंन्यसने परिकल्पिते यदि तवानुमतिः परिकल्पये ॥६५
इति शिशौ चक्रिता वदति स्फुटं व्यधित साऽनुपर्ति द्रुतमम्बिका ।
सति सुते भविता मम दर्शनं मृतवतस्तदु नेति विनिश्चयः ॥६६
तदनु संन्यसनं मनसा व्यवादथ मुमोच शिशुं खलनककः ।
शिशु रुपेत्य सरित्तटमत्रसन प्रसुवमेतदुवाच शुचाऽऽकृताम् ॥६७
मातर्विधेयमनुशाधि यदत्र कार्य
संन्यासिना तदु करोगि न सन्दिहेऽहम् ।
वाशने तब यथेष्टममी प्रदद्यु-
गृहन्ति ये धनमिदं मम पैतृकं यत् ॥६८
देहेऽम्ब रोगवश च सनाभयोऽप्री
द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिमसङ्गे ।
अर्थग्रहाज्जनभयाच्च यथाविधानं
कुर्युव संस्कृतिममी न विभेयमीषत् ॥६९
यज्जीवितं जलचरस्य मुखात्तदिष्टं संन्याससंगरवशान्त्रम देहपाते ।
संस्कार मेत्य विधिवत्रु शङ्कर त्वं नो चेलसूय मम कि फलमीरय त्वम् ॥
पृष्ठम्:शङ्करदिग्विजयः.djvu/५३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ५]
47
संन्यासग्रहणम्