पृष्ठम्:शङ्करदिग्विजयः.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ५ ]
51
संन्यासग्रहणम्

 आकर्ण्य शङ्करमुनेर्वचनं तदित्य-
  मद्वैतदर्शनसमुत्थमुपात्तहर्षः ।
 स माह शङ्कर स शङ्कर एव साक्षा-
  ज्जातस्त्वमित्यहमवैमि समाधिदृष्टया ॥१००

 तस्योपदर्शितवतश्चरणौ गुहाया
  द्वारे न्यपूजयदुपेत्य स शङ्करायः ।
 आचार इत्युपदिदेश स तत्र तस्मै
  गोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥१०१

शङ्करः सविनयैरुपचारैर भ्यतोषयदसौ गुरुमेनम् ।
ब्रह्म तद्विदितमप्युपलिप्सुः सम्प्रदायपरिपालनबुद्धया ॥ १०२

भक्तिपूर्वकृततत्परिचर्यातोषितोऽधिकतरं यतिवर्यः ।
ब्रह्मतामुपदिदेश चतुर्भिर्वेदशे वरवचोभिरमुष्मै ॥१०३

साम्प्रदायिकपराशर पुत्रप्रोक्तसूत्रमतगत्यनुरोधात् ।
शास्त्रगूढहृदयं हि दयालोः कृत्स्नमप्ययमबुद्ध रुबुद्धिः ॥ १०४

 व्यासः पराशरसुतः किल सत्यवत्यां
  तस्यात्मजः शुकपामुनिः प्रथितानुभावः ।
 तच्छिष्यतामुपगतः किल गौडदो
  गोविन्दनाथमुनिरस्य च शिष्यभूतः ॥१०५

 शुश्राव तस्य निकटे किल शास्त्रजालं
  याणोजगमगतस्त्वनन्तात् ।
 शब्दाम्बुराशिम खिलं समयं विधाय
  यश्चाखिलानि भुवनानि बिभर्ति मूर्ध्ना ॥१०६

सोऽधिगम्य चरमाश्रममार्य: पूर्वपुण्यनिचयैरधिगम्यम् ।
स्थानमर्च्यमपि हंसपुरोगैरुन्नतं ध्रुव इवैत्य चकाशे ॥१०७

छन्नमूर्तिरतिपाटलशाटी पल्लवेन रुरुचे यतिराजः ।
वासरोपरमरक्तपयोदाच्छादितो हिमगिरेरिव कूटः ॥१०८