एष धूर्जटिरबोधमहेभं संनिहत्य रुधिराप्लुतचर्म ।
उद्यदुष्णकिरणारुणशाटीपल्लवस्य कपटेन बिभर्ति ।। १०९
श्रुतीनामाक्रीडः प्रथितपरहंसोचितगति-
निजे सत्ये धाम्नि त्रिजगदतिवर्तिन्यभिरतः।
असौ ब्रह्मवास्मिन्न खलु विशये किन्तु कलये
बृहेरर्थं साक्षादनुपचरितं केवलतया ॥११०
मित पादेनैव त्रिभुवनमिहैकेन महसा
विशुद्धं यत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् ।
दशाकारातीतं स्वमहिमनि निर्वेदरमणं
ततस्तद्विष्णोः परमपदमाख्याति निगमः ॥ १११
न भूतेष्वासङ्गः कचन न गवा चा विहरणं
न भूत्या संसर्गो न परिचितता भोगिभिरपि ।
तदप्याम्नायान्तस्त्रिपुरदहनात्केवलशा
तुरीयं निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ॥११२
न धर्मः सौवर्णो न पुरुषफलेषु प्रवणता
न चैवाहोरात्रस्फुरदरियुतः पार्थिवरथः ।
असाहाय्येनैवं सति विततपुर्यष्टकजये *
कथं तं न यानिगमनिकुरम्बं परशिवम् ॥११३
दुःखासारदुरन्तदुष्कृतघनां दुःसंमृतिप्रावृष
दुर्वारामिह दारुणां परिहरन्दूरादुदाराशयः ।
उच्चण्डपतिपक्षपण्डितयशोनालीकनालाङ्कर-
ग्रासो हंसंकुलावतंसपदभाक् सन्मानसे क्रीडति ॥ ११४
- 1. ज्ञानेन्द्रियपञ्चकम, 2. कमेन्द्रियपञ्चकम, 3. प्राण-
'पञ्चकम, 4. अन्तःकरणवतुष्टयम् ,
5. अविद्या,
7. कर्म, 8. वासना इति पुर्यष्टकम्-इति व्याख्या ॥
6. कामः,