पृष्ठम्:शङ्करदिग्विजयः.djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
54
[पञ्चमः
श्रीमच्छङ्करदिग्विजये

उत्ससर्जरसकुज्जलधारा वारिदा गगनधाम पिधाय ।
शङ्करो हृदयमात्मनि कृत्वा संजहार सकलेन्द्रियवृत्तीः ॥ १२५

शनै: सान्त्वालापैः सनयमुपनीतोपनिषदां
चिरायत्तं त्यक्त्वा सहजपभिमानं दृढतरम् ।
तमेत्य प्रेयांस सपदि परहंसं पुनासा-
वधीरा संस्पष्टुं क्कनु सपदि द्धालयमगात् ॥१२६

न सूर्यो नैवेन्दुः स्फुरति न च राततिरियं
कुतो विद्युल्लेखा किदह कुशानीर्विलसितम् ।
नो विझो रोदस्यों न च समयमस्मिन्न जलदे
चिदाकाशे सान्द्रवसुखरसवपण्यविस्तम् ॥१२७

किमादेयं हेयं किमिति सहजानन्दजलधा-
बतिवच्छे तुच्छीकृतसकलमाये परशिवे ।
तदेतस्मिन्नेव स्वमहिपनि विस्मापनवदे
स्वतः सत्ये नित्ये रइसि परमे सोऽकृत कृती ॥ १२८

माप विष्णुपदभागपि मेव: माडागमनतो मलिनत्वम् ।
विधुदुज्ज्वलरुचाऽनुसृतश्च कोऽध्यवन्यपि भजेन्न विरागम् ॥ १२९

आशये कलुषिते सलिलानां मानसोकहृदयाः कलहंसाः ।
कोऽन्यथा भवति जीवनलिप्सुर्नाश्रये भजति मानसचिन्ताम् ॥ १३०

अभ्रवर्त्मनि परिभ्रम मिच्छशुभ्रदीधितिर पयोदे ।
न प्रकाशनमवाप कलावान कश्वकास्ति मलिनाम्बरवासी ॥१३१

चातकावलिरनल्पपिपासा प्राप तृप्तिमुदकस्य चिराय ।
मानुयादमृतमप्यभिवाञ्छन् कालतो वत धनाश्रयकारी ॥१३२

इत्युदीर्णजलवाहविनीले स्फीतवातपरिधूततमाले ।
माणभृत्मचरणमतिकूले नीडनीलघनशालिनि काले ॥१३३

अग्रहारशतसंभृतशोभे सुग्रहाक्षतुरगः स महात्मा ।
अध्युवास तटमिन्दुभवाया: सुध्युपास्यचरणं गुरुमर्चन् ॥१३४