पृष्ठम्:शङ्करदिग्विजयः.djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
56
[पञ्चमः
श्रीमच्छङ्करदिग्विजये

हंस संगतिलसद्विरजस्कं क्षोभवर्जितमपहुतपकम् ।
वारि सारसमतीव गभीरं तावकं मन इन प्रतिभाति ॥१४७

शारदाम्बुधरजालपरीतं भ्राजते गगनमुज्ज्वलभानु ।
लिप्तचन्दनरजः समुदञ्चत्कौस्तुभं मुररिपोरिव वक्षः ॥१४८

पङ्कजानि समुदृढहरीणि प्रोगतानि विकचानि कनन्ति ।
सौम्य योगकलयेव विफुलान्युन्मुखानि हृदयानि मुनीनाम् ॥ १४९

रेणुभस्मकलितैर्द कशाटी संवृतैः कुसुम लिड्जपमालैः ।
वृन्तकुड्मलकमण्डलुयुक्तैर्यते क्षितिरुहैर्यतितौल्यम् ॥१५०

धारणादिभिरपि श्रवणाचैर्वार्षिकाणि दिवसान्यपनीय ।
पादपद्मरजसाऽद्य पुनन्तः संचरन्ति हि जगन्ति महान्तः ॥१५१

तद्भवान् व्रजतु वेदकदम्बादुद्भवां भवदवाम्बुदमालाम् ।
तत्वपद्धतिमभिज्ञ विवेक्तुं सत्वरं हरपुरीमविविक्ताम् ॥१५२

अत्र कृष्णमुनिना कथितं मे पुत्र तच्छृणु पुरा तुहिनाद्रौ ।
दृत्रशत्रुमुखदैवतजुष्टं सत्रपत्रिमुनिकर्तृकमास ॥१५३

संसदि श्रुतिशिरोऽर्थमुदारं शंसति स्म पराशरसूनुः ।
इत्यपृच्छमहमत्रभवन्तं सत्यवाचमभियुक्तमं तम् ॥१५४

आर्य वेदनिकरः प्रविभक्तो भारतं कृतमकारि पुराणम् ।
योगशास्त्रमपि सम्यगभाषि ब्रह्मसूत्रमपि सूत्रितमासीत् ॥१५५


अत्र केचिदिह विप्रतिपन्ना: कल्पयन्ति हि यथायथमर्थान् ।
अन्यथाग्रहणनिग्रहदक्षं भाष्यमस्य भगवन् करणीयम् ॥१५६

मद्वचः स च निशम्य सभायां विद्वदग्रसर वाचमवोचत् ।
पूर्वमेव दिविषद्भिरुदीर्णः पार्वतीपतिसदस्ययमर्थः ॥१५७

वत्स तं शृणु समस्त विदेको मत्समस्तव भविष्यति शिष्यः ।
कुम्भ एव सरितः सकलं यः संहरिष्यति महोल्त्रणमम्भः ॥१५८