पृष्ठम्:शङ्करदिग्विजयः.djvu/६५

पुटमेतत् सुपुष्टितम्
सर्गः ६]
59
आत्म विद्याप्रतिष्ठा

अपाङ्गैरुत्तुङ्गैरमृतझरभङ्गैः परगुरो
शुचा दूनं दीनं कलय दयया मामविमृशन् ।
गुणं वा दोषं वा मम किमपि संचिन्तयसि चेत्
तदा कैव श्लाघा निरवधिकृपानीरधिरिति ।।

स्यात्ते दीनदयालुताकृतयशोराशिस्त्रिलोकीगुरो
तूर्णं चेदयसे ममाद्य न तथा कारुण्यतः श्रीमति ।
वर्षन् भूरि मरुस्थलीषु जलभृत्सद्भिर्यथा पूज्यते
नैवं वर्षशतं पयोनिधिजले वर्षन्नपि स्तुयते ।।

  • त्वत्सारस्वतसारसारससुधाकूपारसत्सारस-

स्रोतःसंभृतसंततोज्ज्वलजलक्रीडा पतिर्मे मुने ।
चश्चत्पञ्चशरादिवञ्चनहतं न्यश्चं प्रपञ्चं हित-
ज्ञानाकिञ्चनमा विरिञ्चमखिलं चालोचयन्त्यञ्चतु ॥

सौरं धाम सुधामरीचिनगरं पौरन्दरं मन्दिरं
कौबेरं शिबिरं हुताशनपुरं सामीरसद्मोत्तरम् ।
वैधं चाऽऽवसथं त्वदीयफणितिश्रद्धासमिद्धात्मनः
शुद्धाद्वैतविदो न दोग्धि कुतुकं विरतिश्रीघातुकं कौतुकम् ॥९

न भौमा रामाद्याः सुषमविषवल्लीफलसमाः
समारम्भन्ते नः किमपि कुतुकं जातु विषयाः ।
न गण्यं नः पुण्यं रुचिरतररम्भाकुचतटी-
परीरम्भारंभोज्ज्वलमपि च पौरन्दरपदम् ॥ १०

न चञ्चद्वैरिश्चं पदमपि भवेदादरपदं
वचो भव्यं नव्यं यदकृत कृती शङ्करगुरुः ।
चकोरालीचनूपुटदलितपूर्णेन्दुविगल-
सुधाधाराकारं तदिह वयमीहेमहि मुहुः ॥११

तव सरस्वत्याः साररूपः सारससुधाकृपारः चन्द्रसम्बन्धी

अमृतसमुद्रस्तस्य सतां सारसानां पक्षिणां कमलानां वा स्रोतोभिः प्रवाहैः यत् संभृतं संमिश्रितं संश्रितं वा संततमुज्ज्वलं जलं तस्मिन् क्रीडा यस्यास्तथा भूता सती मे मतिः-इति व्याख्या ॥