पृष्ठम्:शङ्करदिग्विजयः.djvu/६८

पुटमेतत् सुपुष्टितम्
62
[षष्ठः
श्रीमच्छङ्करदिग्विजये

इत्युदीर्य वचनं विरतेऽस्मिन् सत्यवाक्तदनु विप्रतिपन्नः ।
अत्युदारचरितोऽन्त्यजमेनं प्रत्युवाच स च विस्मितचेताः ॥३३

सत्यमेव भवता यदिदानीं प्रत्यवादि तनुभृत्प्रवरैतत् ।
अन्त्यजोऽयमिति सम्प्रति बुद्धिं संत्यजामि वचसाऽऽत्मविदस्ते ॥ ३४

जानते श्रुतिशिरांस्यपि सर्वे मन्यते च विजितेन्द्रियवर्गाः ।
युञ्जते हृदयमात्मनि नित्यं कुर्वते न धिषणामपभेदाम् ॥३५

भाति यस्य तु जगद् दृढबुद्धेः सर्वमप्यनिशमात्मतयैव ।
स द्विजोऽस्तु भवतु श्वपचो वा वन्दनीय इति मे दृढनिष्ठा ॥३६

या चितिः स्फुरति विष्णुमुखे सा पुत्तिकावधिषु सैव सदाऽहम् ।
नैव दृश्यमिति यस्य मनीषा पुल्कसो भवतु वा स गुरुर्मे ।। ३७

यत्र यत्र च भवेदिह बोधस्तत्तदर्थसमवेक्षणकाले ।
बोधमात्रमवशिष्टमहं तद्यस्य धीरिति गुरुः स नरो मे ॥ ३८

भाषमाण इति तेन कलावानेष नैक्षत तमन्त्यजमग्रे ।
धूर्नटिं तु समुदैक्षत मौलिस्फूर्जदैन्दवकलं सह वेदैः ।। ३९

भयेन भक्त्या विनयेन धृत्या युक्तः स हर्षेण च विस्मयेन ।
तुष्टाव शिष्टानुमतः स्तवैस्तं दृष्ट्वा दृशोर्गोचरमष्टमूर्तिम् ॥ ४०

दासस्तेऽहं देहदृष्टयाऽस्मि शंभो जातस्तेंऽशो जीवष्टया त्रिदृष्टे ।
सर्वस्यात्मन्नात्मदृष्टया त्वमेवेत्येवं मे धीर्निश्चिता सर्वशास्त्रैः ।। ४१

यदालोकादन्तर्बहिरपि च लोको वितिमिरो
न मञ्जूषा यस्य त्रिजगति न शाणो न च खनिः ।
यतन्ते चैकान्तं रहसि यतयो यत्प्रणयिनः
नमस्तस्मै स्वस्मै निखिलनिगमोत्तंसमणये ॥ ४२

अहो शास्त्रं शास्त्रात्किमिह यदि न श्रीगुरुकृपा
चिता सा किं कुर्यान्ननु यदि न बोधस्य विभवः ।
किमालम्बश्वासौ न यदि परतत्वं मम तथा
नमः स्वस्मै तस्मै यदवधिरिहाश्चर्यधिषणा । ४३