पृष्ठम्:शङ्करदिग्विजयः.djvu/७५

पुटमेतत् सुपुष्टितम्
सर्गः ६]
69
आत्मविद्याप्रतिष्ठा

तत्तादृग्यतिशेखरोध्दृतनिषद्भाध्यं निशम्येर्ष्यया
केचिद्देवनदीतटस्थविदुषामक्षांघ्रिपक्षश्रिताः ।
मौर्ख्यात्खण्डयितुं प्रयत्नमनुमानैकेक्षणा विक्षमा-
श्चक्रुर्भाव्यविचार्य चित्रकिरणं चित्राः पतङ्गा इव ॥

निघर्षणच्छेदनतापनाद्यैर्यथा सुवर्ण परभागमेति ।
विवादिभिः साधु विमथ्यमानं तथा मुनेर्भाष्यमदीपि भूयः ॥ ९८

स भाष्यचन्द्रो यतिदुग्धसिन्धोरुत्थाय दास्यन्नमृतं बुधेभ्यः ।
विधय गोभिः कुमतान्धकारानतर्पयद्विपमनश्चकोरान् ॥

अनादिवाक्सागरमन्थनोत्था सेव्या बुधैर्धिक्कृतगदुःदसपत्नैः विश्राणयन्ती विजरामरत्वं विदिद्युते भाष्यसुधा यतीन्दोः । १००

सतां हृदब्जानि विकासयन्ती तमांसि गाढानि विदारयन्ती ।
प्रत्यर्थ्युलूकान् प्रविलापयन्ती भाष्यप्रभाऽभाद्यतिवर्यभानोः ॥ १०१

न्यायमन्दरविमन्थनजाता भाष्यनूतनसुधा श्रुतिसिन्धोः ।
केवलश्रवणतो विबुधेभ्यश्चित्रमत्र वितरत्यमृतत्वम् ॥ १०२

पादादासीत्पद्मनाभस्य गङ्गा शंभोर्वक्त्रच्छांकरी भाष्यमूक्तिः ।
आद्या लोकान्दृश्यते मज्जयन्तीत्यन्या मग्नानुद्धरत्येष भेदः ॥ १०३

व्यासो दर्शयति स्म सूत्रकलितन्यायौघरत्नावली-
रर्थालाभवशान्न कैरपि बुधैरेता गृहीताश्विरम् ।
अर्थाप्त्या सुलभाभिराभिरधुना ते मण्डिताः पण्डिता
व्यासश्चाऽऽप कृतार्थतां यतिपतेरौदार्यमाश्चर्यकृत् ॥ १०४

विद्वज्जालतपःफलं श्रुतिवधूधम्मिलमल्लीस्रजं
सद्वैयासकसूत्रमुग्धमधुरागण्यातिपुण्योदयम् ।
वाग्देवीचिरभोग्यभाग्यविभवप्राग्भारकोशालयं
भाष्यं ते निपिबन्ति हन्त न पुनर्येषां भवे संभवः ॥ १०५