पृष्ठम्:शङ्करदिग्विजयः.djvu/७७

पुटमेतत् सुपुष्टितम्
सर्गः ६]
71
व्यासदर्शनादिचरितवर्णनम्

पपच्छ सोऽध्यायमथाधिकृत्य तृतीयमारम्भगतं यतीशम् ।
'तदन्तरे'त्यादिकमस्ति मूत्रं ब्रह्येतदर्थं यदि वेत्थ किश्चित् ॥ ६

स प्राह जीवः करणावसादे संवेष्टितो गच्छति भूतमूक्ष्मैः ।
ताण्डिश्रुतौ गौतमजैवलीयपश्नोत्तराभ्यां प्रथितोऽयमर्थः ॥ ७

इत्युक्तमर्थं निशमय्य तेन स वावदूकः शतधा विकल्प्य ।
अखण्डयत्पण्डितकुञ्जराणां मध्ये महाविस्मयमादधानः ॥ ८

अनूद्य सर्वं फणितं तदीयं सहस्रधा तीर्थकरश्चखण्ड ।
तयाः सुराचार्यफणीन्द्रवाचोर्दिनाष्टकं वाक्कलहो जजम्भे ॥ ९

एवं वदन्तौ यतिरादड्द्विजेन्द्रौ विलोक्य पार्श्वस्थितपद्मपादः ।
आचार्यमाहेति महीसुराऽयं व्यासो हि वेदान्तरहस्यवेत्ता ॥ १०

त्वं शङ्करः शङ्कर एव साक्षात् व्यासस्तु नारायण एव नूनम् ।
तयोविवादे सततं प्रसक्ते किं किङ्करोऽहं करवाणि सद्यः ॥ ११

इतीदमाकर्ण्य वचो विचित्त्रं स भाष्यकृत्सूत्रकृतं दिदृक्षुः ।
कृताञ्जलिस्तं प्रयतः प्रणम्य बभाण वाणीं नवपद्यरूपाम् ॥ १२

भवांस्तडिच्चारुजटाकिरीटपवर्षुकाम्भोधरकान्तिकान्तः ।
शुभ्रोपवीती धृतकृष्णचर्मा कृष्णो हि साक्षात्कलिदोषहन्ता ॥ १३

भावत्कसूत्रप्रतिपाद्यतादृक्परापरार्थपतिपादकं सत् ।
अद्वैतभाष्यं तव संमतं चेत्सोढ्वा ममाऽगः पुरतो भवाऽऽशु ॥ १४

एवं वदन्नयमथैक्षत कृष्णमाराच्चामीकरव्रततिचारुजटाकलापम् ।
विद्युल्लतावलयवेष्टितवारिदाभं चिन्मुद्रया प्रकटयन्तमभीष्टमर्थम् ॥ १५

गाढोपगूढमनुरागजुषा रजन्या गर्हापदं विदधतं शरदिन्दुबिम्बम् ।
तापिच्छरीतितनुकान्तिझरीपरीतं कान्तेन्दुकान्तघटितं करकं दधानम् ॥

सप्ताधिकाच्छदरविंशतिमौक्तिकाढ्यां
सत्यस्य मूर्तिमिव बिभ्रतमक्षमालाम् ।
तत्तादृशस्वपतिवंशविवर्धनात्मा-
त्तारावलीमुपगतामिव चानुनेतुम् ॥ १७