क्वेमे शङ्करसद्गुरोर्गुणगणा दिग्जालकूलङ्कषाः
कालोन्मीलितमालतीपरिमलावष्टंभमुष्टिंधयाः ।
काहं हन्त तथाऽपि सद्गुरुकृपापीयूषपारम्परी-
मग्नोन्मग्नकटाक्षवीक्षणबलादस्ति प्रशस्ताऽर्हता ॥ ६
धन्यंमन्यविवेकशून्यसुजनंमन्याब्धिकन्यानटी-
नृत्योन्मत्तनराधमाधमकथांसंमर्ददुष्कर्दमैः ।
दिग्धां मे गिरमद्य शङ्करगुरुक्रीडासमुद्यद्यशः-
पारावारसमुच्चलज्जलझरैः संक्षालयामि स्फुटम् ॥ ७
वन्ध्यासूनुखरीविषाणसदृशक्षुद्रक्षितीन्द्रक्षमा-
शौर्यौदार्यदयादिवर्णनकलादुर्वासनावासिताम् ।
मद्वाणीमधिवासयामि यमिनस्त्रैलोक्यरङ्गस्थली-
नृत्यत्कीर्तिनटीपटीरपटलीचूर्णैर्विकीर्णैः क्षितौ ॥ ८
पीयूषद्युतिखण्डमण्डनकृपारूपान्तरश्रीगुरु-
प्रेमस्थेमसमर्हणार्हमधुरव्याहारसूनोत्करः ।
प्रौढोऽयं नवकालिदासकवितासन्तानसंतानको
दद्यादद्य समुद्यतः सुमनसामामोदपारम्परीम् ॥ ९
सामोदैरनुमोदिता मृगमदैरानन्दिता चन्दनै-
र्मन्दारैरभिवन्दिता प्रियगिरा काश्मीरजैः स्मेरिता ।
वागेषा नवकालिदासविदुषो दोषोज्झिता दुष्कवि-
र्वातैर्निष्करुणैः क्रियेत विकृता धेनुस्तुरुष्कैरिव ॥ १०
यद्वा दीनदयालवः सहृदयाः सौजन्यकल्लोलिनी-
दोलान्दोलनखेलनैकरसिकस्वान्ताः समन्तादमी ।
सन्तः सन्ति परोक्तिमौक्तिकजुषः किं चिन्तयाऽनन्तया
यद्वा तुष्यति शङ्करः परगुरुः कारुण्यरत्नाकरः ॥ ११
उपक्रम्य स्तोतुं कतिचन गुणाञ्छङ्करगुरोः
प्रभग्नाः श्लोकार्धे कतिचन तदर्धार्धरचने ।
पृष्ठम्:शङ्करदिग्विजयः.djvu/८
पुटमेतत् सुपुष्टितम्
2
[प्रथमः
श्रीमच्छङ्करदिग्विजये