पृष्ठम्:शङ्करदिग्विजयः.djvu/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ६]
77
व्यासदर्शनादिचरितवर्णनम्

सोऽयं गुरोरुन्मथनप्रसक्तं महत्तरं दोषमपाकरिष्णुः ।
अशेषवेदार्थविदास्तिकत्वात्तुषानलं पाविशदेष धीरः ।।

अयं ह्यधीताखिलवेदमन्त्रः कूलंकषालोडितमर्वतन्त्रः ।
नितान्तदूरीकृतदुष्टतन्त्रस्त्रैलोक्यविभ्रामितकीर्तियन्त्रः ॥

श्रुत्वेति तां सत्वरमेष गच्छन् व्यालोकयत्तं तुषराशिसंस्थम् ।
प्रभाकराद्यैः प्रथितप्रभवैरुपस्थितं साश्रुमुखैविनेयैः ।।

धूमायमानेन तुषानलेन संदह्यमानेऽपि वपुष्यशेषे।
सन्दॄश्यमानेन मुखेन बाष्पपरीतपद्मश्रियमादधानम् ॥

दूरे विधूताघमपाङ्गभङ्गया तं देशिकं दृष्टिपथावतीर्णम् ।
ददर्श भट्टो ज्वलदग्निकल्पो जुगोप यो वेदपथं जितारिः॥ ७९

अदृष्टपूर्व श्रुतपूर्ववृत्तं दृष्ट्वाऽतिमोदं स जगाम भट्टः ।
अचीकरच्छिष्यगणैः सपर्यामुपाददे तामपि देशिकेन्द्रः ।।

उपात्तभिक्षः परितुष्टचित्तः प्रदर्शयामास स भाष्यमस्मै ।
सर्वो निबन्धो ह्यमलोऽपि लोके शिष्टेक्षितः संचरणं प्रयाति ॥ ८१

दृष्ट्वा भाष्यं हृष्टचेता: कुमारः प्रोचे वाचं शङ्करं देशिकेन्द्रम् ।
 लोके त्वल्पो मत्सरग्रामशाली सर्वज्ञानो नाल्पभावस्य पात्रम् ॥ ८२

अष्टौ सहस्राणि विभान्ति विद्वान् सदार्तिकानां प्रथमेऽत्र भाष्ये ।
अहं यदि स्यामगृहीतदीक्षो ध्रुवं विधास्ये सुनिबन्धमस्य ॥ ८३

भवादृशां दर्शनमेव लोके विशेषतोऽस्मिन् सपये दुरापम् ।
पुराऽऽर्जितैः पुण्यचयैः कथंचित्वमद्य मे दृष्टिपथं गतोऽभूः ।। ८४

असारसंसारपयोब्धिमध्ये निमज्जतां सद्भिरुदारवृत्तैः ।
भवादृशैः संगतिरेव साध्या नान्यस्तदुत्तारविधावुपायः ।। ८५

चिरं दिदृक्षे भगवन्तमित्थं त्वमद्य मे दृष्टिपथं गतोऽभूः ।
नह्यत्र संसारपथे नराणां स्वेच्छाविधेयोऽभिमतेन योगः ॥ ८६
८०