पृष्ठम्:शङ्करदिग्विजयः.djvu/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
80
[सप्तमः
श्रीमच्छङ्करदिग्विजये

जाने तवाहं भगवन् प्रभावं संहृत्य भूतानि पुनर्यथावत् ।
स्रष्टुं समर्थोऽसि तथाविधो मामुज्जीवयेश्चेदिह किं विचित्रम् ॥ १११

नाभ्युत्प्रहे किन्तु यतिक्षितीन्द्र सङ्कल्पितं हातुमिदं व्रताग्र्यम् ।
तत्तारकं देशिकवर्य मह्यमादिश्य तद्ब्रह्म कृतार्थयेथाः ।।
११२

अयं च पन्था यदि ते प्रकाश्यः सुधीश्वरो मण्डनमिश्रशर्मा ।
दिगन्तविश्रान्तयशा विजेयो यस्मिञ्जिते सर्वमिदं जितं स्यात् ॥ ११३

सदा वदन् योगपदं च साम्पतं स विश्वरूपः प्रथितो महीतले ।
महागृही वैदिककर्मतत्परः प्रवृत्तिशास्त्रे निरतः सुकर्मठः ।।
११४

निवृत्तिशास्त्रे नकृतादरः स्वयं केनाप्युपायेन वशं स नीयताम् ।
वशं गते तत्र भवेन्मनोरथस्तदन्तिकं गच्छतु मा चिरं भवान् ॥ ११५

उंवेक इत्यभिहितस्य हि तस्य लोकैरुवेति बान्धवजनैरभिधीयमाना ।
हेतोः कुतश्चिदिह वाक्सुरुषाऽभिशप्ता दुर्वाससाऽजनि वधूर्द्वय दयभारतीति ।।

सर्वासु शास्त्रसरणीषु स विश्वरूपो मत्तोऽधिकः प्रियतमश्च मदाश्रवेषु ।
तत्प्रेयसीं शमघनेन्द्र विधाय साक्ष्ये वादे विजित्य तमिमं वशगं विधेहि ॥

तेनैव तावककृतिष्वपि वार्तिकानि कर्मन्दिवर्यतम कारय मा विलम्बम् ।
त्वं विश्वनाथ इव मे समये समागास्तत्तारकं समुपदिश्य कृतार्थयेथः ।।

निर्व्याजकारुण्य मुहूर्तमात्रपत्र त्वया भाव्यमहं तु यावत् ।
योगीन्द्रहृत्पङ्कजभाग्यमेतत् त्यजाम्यसून् रूपमवेक्षमाणः ।।

इत्युचिवांसमिममिद्धसुखप्रकाशं ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् ।
तन्वन्दयानिधिरसौ तरसाऽभ्रमार्गाच्छ्रीमण्डनस्य निलयं स इयेष गन्तुम् ।।

अथ गिरमुपसंहृत्यादराद्भट्टपादः शमधनपतिनालौ बाधिताद्वैततत्वः ।
प्रशमितममतः संस्तत्मसादेन सद्यो विदलदखिलबन्धो वैष्णवं धाम पेदे ।।
इति श्रीमाधवीये तद्व्याससंदर्सशचित्रगः ।
संक्षेपशङ्करजये सर्गोऽसौ सप्तमोऽभवत् ॥ ७ ॥
आदितः श्लोकाः 784.
+