अथाष्टमः सर्गः ॥८॥
श्रीमदाचार्यमण्डनमिश्रसंवादः ॥
अथ प्रतस्थे भगवान् प्रयागात्तं मण्डनं पण्डितमाशु जेतुम् ।
गच्छन् खसृत्या पुरमालुलोके माहिष्मतीं मण्डनमण्डितां सः ॥
अवातरद्रत्नविचित्रवपां विलोक्य तां विस्मितमानसोऽसौ ।
पुराणवत्पुष्करवर्तनीतः पुरोपकण्ठस्थवने मनोज्ञे ।।
प्रफुल्लराजीववने विहारी तरङ्गारिङ्गत्कणशीकराद्रः ।
रेवामरुकम्पितसालालमाल: श्रमापहृद भाष्यकृतं सिषेवे ।।
तस्मिन् स विश्रम्य कृताह्निकः सन् खस्वस्तिकारोहणशालिनीने ।
गच्छन्नसौ मण्डनपण्डितौको दासीस्तदीयाः स ददर्श मार्गे ॥
कुत्रालयो मण्डनपण्डितस्येत्येताः स पप्रच्छ जलाय गन्त्रीः ।
ताश्चापि दृष्ट्वाऽद्भुतशङ्करं तं सन्तोषवत्यो ददुरुत्तरं स्म ॥
स्वतःप्रमाणं परतः प्रमाणं कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितोकः ।।
फलप्रदं कर्म फलप्रदोऽजः कीराङ्गाना यत्र गिरं गिरन्ति ।
द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ।।
जगद ध्रुवं स्याज्जगदध्रुवं स्यात्कीराङ्गाना यत्र गिरं गिरन्ति ।
द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ।।
पीत्वा तदुक्तीरथ तस्य गेहाद्गत्वा बहिः सद्य कवाटगुप्तम् ।
दुर्वेशमालोच्य स योगशक्त्या व्योमाध्वनाऽवातरदङ्गणान्तः ॥
तदा स लेखेन्द्रनिकेतनाभं स्फुरन्मरुच्चञ्चलकेतनाभम् ।
समग्रमालोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥
सौधाग्रसंच्छन्ननभोवकाशं पविश्य तत्प्राप्य कवेः सकाशम् ।
विद्याविशेषात्तयशःमकाशं ददर्श तं पद्मजसन्निकाशम् ॥