पृष्ठम्:शङ्करदिग्विजयः.djvu/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
82
[अष्टमः
श्रीमच्छङ्करदिग्विजये

तपोमहिम्नैव तपोनिधानं सजैमिनिं सत्यवतीतनृजम् ।
यथाविधि श्राद्धविधौ निमन्त्र्य तत्पादपद्यान्यवनेजयन्तम् ॥ १२

तत्रान्तरिक्षादवतीर्य योगिवर्यः समागम्य यथार्हमेषः ।
द्वैपायनं जैमिनिमप्युभाभ्यां ताभ्यां सहर्षं प्रतिनन्दितोऽभूत् ।। १३

अथ द्युमार्गादवतीर्णमन्तिके मुन्योः स्थितं ज्ञानशिखोपवीतिनम् ।
संन्यास्यसावित्यवगत्य सोऽभवत्प्रवृत्तिशास्त्रैकरतोऽपि कोपनः।।
 
तदाऽतिरुष्टस्य गृहाश्रमेशितुर्यतीश्वरस्थापि कुतूहलं भृतः ।
क्रमात्किलैवं बुधशस्तयोस्तयोः प्रश्नोत्तराण्यासुरथोत्तरोत्तरम् ॥ १५

कुतो मुण्ड्यागलान्मुण्डी पन्थास्ते पृच्छचते मया ।
किमाह पन्थास्त्वन्माता मुण्डेत्याह तथैव हि ॥

पन्थानं त्वमपृच्छस्त्वां पन्थाः प्रत्याह मण्डन ।
त्वन्मातेत्यत्न शब्दोऽयं न मां ब्रूयादपृच्छकम् ।।
१७

अहो पीता किम सुरा नैव श्वता यतः स्मर ।
किं त्वं जानासि तद्वर्णमहं वर्णं भवान् रसम् ॥ १८

मत्तो जातः कलञ्जाशी विपरीतानि भाषते ।
'सत्यं ब्रवीति पितृवत्वत्तो जातः कलञ्जभुक् ।।

कन्यां वहसि दुर्बुद्धे गर्दभेनापि दुर्वहाम् ।
शिखायज्ञोपवीताभ्यां कस्ते भारो भविष्यति ।।

कन्यां वहासि दुर्बुद्धे गर्दभेनापि दुर्वहाम् ।
शिखायज्ञोपवीताभ्यां श्रुतेर्भारो भविष्यति ।। २१

त्यक्त्वा पाणिगृहीतीं स्वामशक्त्या परिरक्षणे ।
शिष्यपुस्तकभारेच्छोर्व्याख्याता ब्रह्मनिष्ठता ।। २२

गुरुशुश्रूषणालस्यात्समावर्त्य गुरोः कुलात् ।
स्त्रियः शुश्रूषमाणस्य व्याख्याता कर्मनिष्ठता ॥ २३