पृष्ठम्:शङ्करदिग्विजयः.djvu/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ६]
83
श्रीमदाचार्यमण्डनमिश्रसंवादः

स्थितोऽसि योषितां गर्भे ताभिरेव विवर्धितः ।
अहो कृतघ्नता मूर्ख कथं ता एव निन्दसि ।। २४

यासां स्तन्यं त्वया पीतं यासां जातोऽसि योनितः ।
तासु मूर्खतम स्त्रीषु पशुबद्रपसे कथम् ।

वीरहत्यामवाप्तोऽसि वन्हीनुद्वास्य यत्नतः ।
आत्महत्यामवाप्तस्त्वमविदित्वा परं पदम् ॥

दौवारिकान्वञ्चयित्वा कथं स्तेनवदागतः ।
भिक्षुभ्योऽन्नमदत्वा वं स्तेनवद्भोक्ष्यसे कथम् ॥ २७

कर्मकाले न संभाष्य अहं मूर्खेण सम्पति ।
अहो प्रकटितं ज्ञानं यतिभङ्गेन भाषिणा ॥
२८

यतिभङ्गे प्रवृत्तस्य यतिभङ्गो न दोषभाक् ।
यतिभङ्गे प्रवृत्तस्य पञ्चम्यन्तं समस्यताम् ।
२९

कं ब्रह्म क्व च दुर्मेघाः क संन्यासः क्व वा कलिः ।
स्वाद्वन्नभक्षकामेन वेषोऽयं योगिनां धृतः ।।
३०

क्व स्वर्गः क्व दुराचारः काग्निहोत्रं क्व वा कलिः ।
मन्ये मैथुनकामेन वेपोऽयं कर्मिणां धृतः ।।

इत्यादिदुर्वाक्यगणं ब्रुवाणे रोषेण साऽहंकृतिविश्वरूपे ।
श्रीशङ्करे वक्तरि तस्य तस्योत्तरं च कौतूहलतश्च चारु ॥ ३२

तं मण्डनं सस्मितजैमिनीक्षितं व्यासोऽब्रवीजल्पसि वत्स दुर्वचः ।
आचारणा नेयमनिन्दितात्मनां ज्ञातात्मतत्त्वं यमिनं धुतैषणम् ॥ ३३

अभ्यागतोऽसौ स्वयमेव विष्णुरित्येव मत्वाऽऽशु निमन्त्रय त्वम् ।
इत्याश्रवं ज्ञातविधिं प्रतीतं सुध्यग्रणीः साध्व शिपन्मुनिस्तम् ॥ ३४

अथोपसंस्पृश्य जलं स शान्तः ससंभ्रमं मण्डनपण्डितोऽपि ।
व्यासाज्ञया शास्त्रविदर्चयित्वा न्यमन्त्रयद्भैक्ष्यकृते महर्षिम् ॥ ३५