पृष्ठम्:शङ्करदिग्विजयः.djvu/९

पुटमेतत् सुपुष्टितम्
सर्गः १]
3
उपोद्घातः

अहं तुष्टूषुस्तानहह कलये शीतकिरणं
कराभ्यामाहर्तुं व्यवसितमतेः साहसिकताम् ॥ १२

तथाऽप्युज्जृम्भन्ते मयि विपुलदुग्धाब्धिलहरी-
ललत्कल्लोलालीलसितपरिहासैकरसिकाः ।
अमी मूकान्वाचालयितुमपि शक्ता यतिपतेः
कटाक्षाः किं चित्रं भृशमघटिताभीष्टघटने ॥ १३

अस्मज्जिह्वाग्रसिंहासनमुपनयतु स्वोक्तिधारामुदारा-
मद्वैताचार्यपादस्तुतिकृतसुकृतोदारता शारदाम्बा ।
नृत्यन्मृत्युञ्जयोच्चैर्मुकुटतटकुटीनिःस्रवत्स्वःस्रवन्ती
कल्लोलोद्वेलकोलाहलमदलहरीखण्डिपाण्डित्यहृद्याम् ॥ १४

क्वेदं शङ्करसद्गुरोः सुचरितं क्वाहं वराकी कथं
निर्बध्नासि चिराजितं मम यशः किं मज्जयस्यम्बुधौ ।
इत्युक्त्वा चपलां पलायितवीं वाचं नियुङ्क्ते बलात्
प्रत्याहृत्य गुणस्तुतौ कविगणश्चित्रं गुरोर्गौरवम् ॥ १५

रूक्षैकाक्षरवाङ्निघण्टुशरणैरौणादिकप्रत्यय-
प्रायैर्हन्त यङन्तदन्तुरतरैर्दुर्बोधदूरान्वयैः ।
क्रराणां कवितावतां कतिपयैः कष्टेन कृष्टः पदै-
र्हाहा स्याद्वशगा किरातविततेरेणीव वाणी मम ॥ १६

नेता यत्रोल्लसति भगवत्पादसंज्ञो महेश:
शान्तिर्यत्र प्रकचति रसः शेषवानुज्वलाद्यैः ।
यत्राविद्याक्षतिरपि फलं तस्य काव्यस्य कर्ता
धन्यो व्यासाचलकविवरस्तस्कृतिज्ञाश्च धन्याः ॥ १७

तत्रादिम उपोद्घातो द्वितीये तु तदुद्भवः ।
तृतीये तत्तदमृतान्धोवतारनिरूपणम् ॥ १८

चतुर्थसर्गे तच्छुद्धाष्टमप्राक्चरितं स्थितम् ।
पञ्चमे तद्योग्यसुखाश्रमप्राप्तिनिरूपणम् ॥ १९