पृष्ठम्:शङ्करदिग्विजयः.djvu/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ६]
85
श्रीमदाचार्यमण्डनमिश्रसंवादः

कः पार्ष्णिकोऽहं गृहमेधिसत्तमस्त्वं भिक्षुराजो वदतामनुत्तमः ।
जयाजयो नौ सुपणौ विधीयतां ततः परं साधु वदाव सुस्मितौ ॥ ४८

अद्यातिधन्योऽस्मि यदार्यपादो मया सहाभ्यर्थयते विवादम ।
भविष्यते वादकथाऽपरेद्युर्माध्याह्निकं सम्पति कर्म कुर्याम् ।। ४९

तथेति सूक्ते स्मितशङ्करेण भविष्यते वादकथा श्व एव ।
तत्साक्षिभावं व्रजतं मुनीन्द्रावित्यर्थयद्धादरजैमिनी सः ।। ५०

विधाय भार्यां विदुषी सदस्यां विधीयतां वादकथा सुधीन्द्र ।
इत्थं सरस्वत्यवतारताज्ञौ तद्धर्मपत्न्यास्तपभाषिषाताम् ।। ५१

अथानुमोद्याभिहितं मुनिभ्यां स मण्डनार्यः प्रकृतं चिकीर्षुः ।
आनर्च दैवोपगतान्मुनीन्द्रानग्नीनिव त्रीन्मुनिशेखरांस्तान् ।। ५२

भुक्त्वोपविष्टस्य मुनित्रयस्य श्रमापनोदाय तदीयशिष्यौ ।
अतिष्ठतां पार्श्वगतौ वटू द्वौ सचामरौ वीजनमाचरन्तौ ।। ५३

अथ क्रियान्ते किल सूपविष्टास्त्रय्यन्तवेद्यार्थविदस्त्रयोऽपी ।
अमन्त्रयंश्चारु परस्परं ते मुहूर्तमानं किमपि प्रहृष्टाः ॥
५४

तेषां द्विजेन्द्रालयनिर्गतानामदर्शनं जग्मतुरञ्जसा द्वौ ।
रेवातटे रम्यकदम्बजाले देवालयेऽवस्थितवांस्तृतीयः ।।

इति स यतिवरेण्यो दैवयोगाद्गुरू-
णामितरजनदुरापं दर्शनं प्राप्य हृष्टः ।
तदुदितवचनानि श्रावयन्नात्मशि-
 ननयदमृततुल्यान्यात्मवित्तां त्रियामाम् ॥

प्रातः शोणसरोजबान्धवरुचिप्र योतिते व्योमनि
प्रख्यातः स विधाय कर्म नियतं प्रज्ञावतामग्रणीः ।
साकं शिष्यवरैः प्रपद्य सदनं सन्मण्डितं माण्डनं
वादायोपविवेश पण्डितसभामध्ये मुनिध्येयवित् ॥ ५७

ततः समादिश्य सदस्यतायां सधर्मिणी मण्डनपण्डितोऽपि ।
स शारदां नाम समस्तविद्याविशारदां वादसमुत्सुकोऽभूत् ॥ ५८