पृष्ठम्:शङ्करदिग्विजयः.djvu/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ६]
89
श्रीमदाचार्यमण्डनमिश्रसंवादः

भिन्नोऽहमीशादिति भासते हि भेदस्य जीवात्मविशेषणत्वम् ।
तत्संनिकर्षोऽस्त्वथ सम्पयोगाभावेऽपि भेदेन्द्रिययोमनीषिन् । ९४

अतिप्रसक्तेर्न तु केवलस्य विशेषणत्वस्य तदभ्युपेयम् ।
भेदाश्रये हीन्द्रियसन्निकृष्ट न सन्निकृष्टत्व मिहात्मनोऽस्ति । ९५

भेदाश्रयात्मेन्द्रियसंनिकर्षों नेत्युक्तमेतच्चतुरं न यस्मात् ।
चित्तात्मनोर्द्रव्यतया द्वयोरप्यस्त्येव संयोगसमाश्रयत्वम् ।। ९६

आत्मा विभुः स्यादथवाऽणुपात्रः संयोगिता नोभयथाऽपि युक्ता।
दृष्टा हि सा सावयवस्य लोके संयोगिता सावयवेन योगिन् । ९७

मनोऽक्षमित्यभ्युपगम्य भेदासङ्गित्वमुक्तं परमार्थतस्तु ।
साहाय्यकृल्लाचनपूर्वकस्य दीपादिवन्नेन्द्रियमेव चित्तम् ।। ९८

भेदप्रमा नेन्द्रियजाऽस्तु तर्हि साक्षिस्वरूपैव तथाऽपि योगिन् ।
तया विरोधात्परमात्मजीवाभेदं कथं बोधयितुं प्रमाणम् ॥

प्रत्यक्षमात्मेश्वरयोरविद्यामायायुजोर्योतयति प्रभेदम् ।
श्रुतिस्तयोः केवलयोरभेदं भिन्नाश्रयत्वान्न तयोविरोधः ।। १००

स्याद्वा विरोधस्तदपि प्रवृत्तं प्रत्यक्षमग्रेऽबलमेव बाध्यम् ।
प्राबल्यवत्या चरमप्रवृत्या श्रुत्या ह्यपच्छेदनयोक्तरीत्या* ॥

१०१

  • पाष्ठ पारमर्षे सूत्रम-“ पौर्वापयै पूर्वदौबल्यं प्रकृतिवत्" इति ।

ज्योतिष्टोमे बहिष्पवमानार्थं हविर्धानानिर्गच्छतामृत्विग्यजमानानां- “अध्वर्यु प्रस्तोताऽन्वारभते, प्रस्तोतारमुद्गाता, उद्गातारं प्रतिहर्ता' इत्यादिनाऽन्वारंभणं विहितम् । तद्विच्छे इनिमित्तं प्रायश्चित्तं श्रूयते- 'यद्युद्गाताऽपच्छिद्येताऽदक्षिणं तं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद् दद्यात् यत्पूर्व स्मिन् दास्यन् स्यात् . यदि प्रतिहर्ताऽपच्छिद्येत सर्ववेदसं दद्यात्" इति । तत्रोद्गातृप्रतिहर्त्रोः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः

सम्मुच्चर्यासंभवात् किं पूर्व कार्यम , उतापरमिति विशये, अनुपजातविरो.

धितया पूर्वमिति प्राप्ते-राद्धान्तः, पौर्वापर्ये सति निमित्तयोः पूर्वस्य नैमित्तिकस्य दौर्बल्यम , उत्तरस्य पूर्वनिरपेक्षस्य तद्बाधकतयोतत्वात् , पूर्वोदयकाल उत्तरस्याप्राप्तत्वेन पूर्वेण बाध्यत्वायोगात् । तदुक्तम्- पूर्व परमजातत्वादबाधित्वैव जायते । परस्यानन्यथोत्पादान्नत्वबाधेन संभवः ॥ इति " u