नन्वेवमप्यस्त्यनुमानबाधोऽभेदश्रुतेः संयमिचक्रवर्तिन् ।
घटादिवद्ब्रह्मनिरूपितेन भेदेन युक्तोऽयमसर्ववित्वात् ।। १०२
किमेष भेदः परमार्थभूतः प्रसाध्यते काल्पनिकोऽथवाऽऽद्ये ।
दृष्टान्तहानिश्चरमे तु विद्वन्नृरीकृतोऽस्माभिरसाधनीयः ॥ १०३
स्वप्रत्ययाबाध्यभिदाश्रयत्वं साध्यं घटादौ च तदस्ति योगिन् ।
त्वयाऽऽत्मबोधेन भिदा न बाध्येत्यनभ्युपेतेति न कोऽपि दोषः ॥ १०४
ननु स्वशब्देन सुखादिमान्वा विवक्षितस्तद्विधुरोऽथवाऽऽत्मा ।
आद्योऽस्मदिष्टं ननु साध्यमन्त्ये दृष्टान्तहानिः पुनरेव ते स्यात् ।। १०५
योगिन्ननौपाधिकभेदवत्त्वं विवक्षितं साध्यमिह त्वदिष्टः ।
औपाधिकस्त्वीश्वरजीवभेदो घटेशभेदो निरूपाधिकश्च ।। १०६
घटेशभेदेऽप्युपधिर्ह्यविद्या तवानुमानेषु जडत्वमेव ।
चित्वादभिन्नः परवत्परस्मादात्मेति वाऽत्र प्रतिपक्षहेतुः ।। १०७
धर्मिप्रमाबाध्यशरीरिभेदो ह्यसंमृतौ ब्रह्मणि साध्यमिष्टम् ।
त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो बाध्यो घटादिप्रमया त्वबाध्यः ॥ १०८
किं कृत्स्नधर्मिप्रमया न बाध्यः किं वा स यत्किंचनर्मिबोधात् ।
घटाधिके ब्रह्मणि चात्मभेदस्यैक्यात् पुनः स्यान्ननु पूर्वदोषः ।। १०९
किंचागुणो वा सगुणो मनीषिन्विवक्ष्यते धम्पिदेन नान्त्यः ।
भेदस्य तद्बुध्यविबाध्यतेष्टेर्नाद्यश्च तत्रोभयथाऽपि दोषात् ।। ११०
किं निर्विशेषं प्रमितं न वाऽन्त्ये प्राप्ताऽऽश्रयासिद्धिरथाद्यकल्पे ।
शरीर्यभेदेन परस्य सिद्धेः प्राप्नोति धर्मिग्रहमानकोपः ॥ १११
तत्र दृष्टान्तः प्रकृतिवत्-यथा प्रकृतौ कृतोपकाराः कुशाः प्रथममतिदेशेन
विकृतावुपकाराकांक्षिण्यां प्राप्ताः कल्योपकारच रममावि भिरपि शरैर्निर- पेक्षैर्बाध्यन्ते तद्वत् । तथा च यथा प्रथमप्रवृत्तं दुबलं पूर्वनैमित्तिकमेव पश्चात्प्रवृत्तेन प्रबलेनोत्तरेण नैमित्तिकेन बाध्यम्, तद्वद् यथोक्तं प्रत्यक्ष- मेव यथोक्तश्रुत्या बाध्यम् । इति डिण्डिमः ॥