जानामि देवीं भवतीं विधातुर्देवस्य भार्यां पुरभित्सगर्भ्याम् । उपात्तलक्ष्म्यादिविचित्ररूपां गुप्त्यै प्रपञ्चस्य कृतावताराम् ।।
व्रज जननि तदा त्वं भक्तचूडामणिस्ते निजपदमनुदास्याम्यभ्यनुज्ञां यदैतुम् । इति निजवचनेऽस्मिाञ्छादासंमतेऽसौ मुनिरथ मुदितोऽभून्माण्डनं हृद्बुभुत्सुः ॥
इति श्रीमाधवीये तन्मण्डनार्यकथापरः । संक्षेपशङ्करजये सर्गोऽसावष्टमोऽभवत् ॥ ८ ॥ आदितः श्लोकाः 920.
अथ नवमः सर्गः ॥९॥
श्रीमदाचार्यसरस्वतीसंवादः ॥
अथ संयमिक्षितिपतेर्वचनैर्निगमार्थनिर्णयकरैः सनयैः ।
शमिताग्रहोऽपि पुनरप्यवदत् कृतसंशयः सपदि कर्मजडः ॥
यतिराज संप्रति ममाभिनवान्न विषादितोऽस्म्यपजयादपि तु ।
अपि जैमिनीयवचनान्यहहोन्मथितानि हीति भृशमस्मि कृशः ॥
स हि वेत्त्यनागतमतीतमपि प्रियकृत्समस्तजगतोऽधिकृतः ।
निगमप्रवर्तनविधौ स कथं तपसां निधिर्वितथसूत्रपदः ।।
इति संदिहानमवदत्तमसौ न हि जैमिनावपनयोऽस्ति मनाक् ।
प्रमिमीमहे न वयमेव मुनेहृदयं यथावदनभिज्ञतया ।।
यदि विद्यते कविजनाविदितं हृदयं मुनेस्तदिह वर्णय भोः ।
यदि युक्तपत्र भवता कथितं हृदि कुर्महे दलदहंकृतयः ॥
अभिसंधिमानपि परे विषयप्रसरन्मतीननुजिघृक्षुरसौ ।
तदवाप्तिसाधनतया सकलं सुकृतं न्यरूपयदिति स्म परम् ॥