पृष्ठम्:शङ्करविजयः.djvu/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

viii

द्वारका-अयोध्या-गया-मगध-वृषाचल-वेङ्कटाचल-काञ्चीनगर - चिदम्बर - मधुरा- गोकर्ण-जगन्नाथ-काश्मीरादिपुण्य​क्षेत्रः, संस्थापित-सौर-वैष्णव-शैव-शाक्त-गाणपत्य- भैरवात्मक-षण्मत' शृङ्ग-गिरीयश्रीमठः-नेपालीयश्रीनीलकण्ठकेदारक्षेत्र-श्रीचिदम्बर- काञ्चीक्षेत्रीय - श्रीमठादिपुण्य​स्थलसम्प्रतिष्ठापितभोग - वर - मुक्ति-मोक्ष-योगात्मकपञ्चमहालिङ्गः नानपुण्यक्षेत्रसंप्रतिष्ठापितानेकमहायन्त्रसंपीठः श्रीकाञ्ची- कामक्षी सन्निधिसन्निधापितश्रीचक्रः समादर्शितपरकायप्रवेशनादिस्वयोगमहिमानुभावः संविजितशरदः संविधाय सर्वज्ञपीठाधिरोहणमन्ते द्वात्रिंशद्धायनपरिमिते स्वायुष्काले स्वावासं कैलासमनुप्राविशदित्येतदतिविचित्रं भगवतः शङ्करस्य चरित्रमपि प्रसिद्धमेवात्र भारते देशेऽन्यत्र विदेशेषु च ॥

तदिदमतिविचित्रं पुण्यमखिलपुरुषार्थदं सर्वजनानुस्म​रणीयं चरित्रमधिकृत्य प्राच्यैराधुनिकैश्च कविवरैरनेकैरनेके प्रबन्धाः समारचिताः प्रकाशिताः केचन पूर्वतनैरप्रकाशिताः केचिदधुनातनैर्द​रीदृश्यन्ते ।

तत्र भगवदानन्दगिरिप्रणीतश्चतुरधिकसप्ततिप्रकरणात्मा शङ्करविजयनामा गद्यपद्योभयात्मा प्रबन्ध एकः ।

श्रीचिद्विलासयतिवरप्रणीतो द्वात्रिंशत्सर्गामा शङ्करविजयविलसनामा पद्यप्रबन्धो द्वितीयः ।

माधवमुनिप्रणीतष्षोडशसर्गात्मा सङ्क्षेपशङ्करविजयनामा पद्यप्रबन्धस्तृतीयः ।

श्रीगोविन्द​नाथप्रणीतोऽध्यायनवकात्मा शङ्कराचार्यचरितनामा पद्यप्रबन्धस्तुरीयः ।

वाघूल​वल्लीसहायकविवर​​प्र​णीतः सप्ताधिककोलाहलात्मा आचार्यदिग्विजयनामा गद्यपद्योभयामा प्रबन्धः पञ्चमः ।

श्रीव्यासाचलप्रणीतो द्वादशसर्गात्मा शङ्करविजयनामा पद्यप्रवन्धः प्रकृतः षष्टः ।

केरलीयशङ्करविजयनामा प्रवन्घः सप्तमः ।

राजचूडामणिदीक्षितप्रणीतः सर्गषट्कात्मा शङ्कराभ्युदयनामा पद्यप्रबन्धोऽष्टमः |

चित्सुखमुनिप्रणीतो बृहच्छङ्करविजयनामा प्रबन्धो नवमः ।