पृष्ठम्:शङ्करविजयः.djvu/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
76
शङ्करविजये षष्ठस्सर्गः

अन्योन्यमुत्तरमख​ण्डयतां 1प्रगल्भौ
बद्धासनौ स्मितविकासिमुखारविन्दौ ।
न स्वेदवारिगगनेक्षणशालिनौ वा
न क्रोधवाकूछलमवादि निरुत्तराभ्याम् ॥ १०१ ॥

सा सप्तमे दिन उपेत्य सरस्वती तौ
संवीक्ष्य भिक्षितुमभूदुभयो2रनेहा ।
उक्त्वेत्थ​मादरधिया वचनं स्वभर्तु-
रन्तर्दधे 3सुवदना किल शापमुक्ता ॥ १०२ ॥

स विश्वरूप बत सत्यवादी
पपात पादाम्बुजयोर्यतीशः ।
गृहं शरीरं मम यच्च सर्वं
तवेतिवादी मुदितो महात्मा ॥ १०३ ॥

सन्यासपूर्वं विधिवद्बिभिक्षे
पश्चादुपादिक्षदथात्मतत्वम् ।
आचार्यवर्यः श्रुतिमसकस्थं
तदादिवाक्यं पुनराबभाषे ॥ १०४ ॥

भूभृद्गेहनिवेशनं गृह​पतेर्गेहस्थभिक्षा क्रिया
वागीशाजनिपाणिपीडनमथो वादश्च तत्साक्षिकः ।
यत्राऽभाणि च 4शङ्करेऽत्र विजये व्यासाचलप्रोदिते
षष्ठस्सर्ग उपारमद्ब​हुकथासम्बन्धहृद्योऽनघः ॥ १०५ ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये षष्ठस्सर्गः ॥


1का. प्रगल्भं । 2का. रनेहाः ।

3का. सुवसना । 4अ. शङ्करेन्द्रविजये ।