एतत् पृष्ठम् परिष्कृतम् अस्ति


॥ अथ सप्तमस्सर्गः ॥


त्वं नासि देहो घठवद्ध्यनात्मा
रूपादिमत्त्वादिह जातिमत्त्वात् ।
ममेति भेदप्रथनादभेद-
संप्रत्ययं विद्धि विपर्ययं भोः ॥ १ ॥

लोप्यो हि 1लोपव्यतिरिक्तलोपको
दृष्टो घटादिः किल तादृशी तनुः ।
दृश्यत्वहेतोर्व्य​तिरेकसाधने
ततश्शरीरे कथमात्मतागतिः ॥ २ ॥

नापीन्द्रियाणि खलु तानि च साधनानि
दात्रादिवत्कथममीषु तवात्मभावः ।
चक्षु2र्मदीयमिति भेदगतेरमीषां
स्वप्नादिमावाविरहाञ्च घठादिसाम्यम् ॥ ३ ॥

यद्यात्मतैषां समुदायगा स्यात्
एकव्ययेनापि भवेन्न तद्धीः ।
प्रत्येकमात्मत्वमुदीर्यते चेत्
नश्येच्छरीरं बहुनायकत्वात् ॥ ४ ॥

आत्मत्वमन्यतमगं यदि चक्षुरादे-
श्च​क्षुर्विनाशसमये स्मरणं न हि स्यात् ।
एकाश्रयत्वनियमात्स्मरणानुभूत्यो-
र्दृष्टश्रुतार्थविषयाधि3 गतिश्च न स्यात् ॥ ५ ॥


1का. लोप्य । 2अ. ममेदमिति ।

3अ. वगतिश्च ।