पृष्ठम्:शङ्करविजयः.djvu/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
78
शङ्करविजये

मनोऽपि नात्मा करणत्वहेतो-
र्मनो मदीयं गतमन्यतोऽभूत् ।
इति प्रतीतेर्व्य​भिचारितायाः
1सुप्तवतश्चिन्मनसो विभक्ता ॥ ६ ॥

अनयैव दिशा निराकृता
ननु बुद्धेरपि चात्म​ता स्फुटम् ।
अपि 2भेदगतेरनन्वयात्।
करणादावपि 3बुद्धिमुज्झ भोः ॥ ७ ॥

नाहङ्कृतेरात्मपदप्रवादात्
प्राणा मदीया इति लोकवादात् ।
प्राणोऽपि नात्मा भवितुं प्रगल्भ​-
स्सर्वोपसंहारिणि[हि]सत्सुषुप्ते ॥ ८ ॥

एवं शरीरादविविक्त आत्मा
त्वंशब्दवाच्योऽभिहितोऽत्र वाक्ये ।
तदोदितं ब्रह्म जगन्निदानं
तथा तदैक्यं पदयुग्मबोध्यम् ॥ ९ ॥

कथं तदैक्यं प्रतिपादयेद्वच-
स्सर्वज्ञसंमूढपदाभिषिक्तयोः ।
न ह्येकता संतमसप्रकाशयोः
संदृष्टपूर्वा न च दृश्यतेऽधुना ॥ १० ॥

सत्यं विरोधगतिर4स्तु तु वाच्यगेयं
सोऽयं पुमानितिवदत्र विरोधहानेः ।
आदाय वाच्यमविरोधि पदद्वयं त-
ल्लक्ष्यैक्यबोधनपरं ननु को विरोधः ॥ ११ ॥


1अ. सुप्तौ च तञ्चिन्मनसो विविक्ता । 2का. रन​न्यथात्वात्।

3का. बुद्धिरूह्यते । 4अ. अस्ति ।

1 अ. सुप्तौ च तचिन्मनसो विविक्ता । 2. का. रनन्यथात्वात् ।

3 का. बुद्धिरूद्यते । 4 अ. अस्ति ।