पृष्ठम्:शङ्करविजयः.djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
84
शङ्करविजये
84
शङ्करविजये

एवं सदा भट्टमतानुसारिणो
ब्रुवन्त्य​यं तन्मतपक्षपातवान् ।
एवं स्थिते 1योग्यमदो विधीयतां
न नोऽस्ति निर्बन्धनमत्र किञ्च​न ॥ ४५ ॥

इत्येवमुत्त्कोपरते च शैष्ये
गणे बभाषे किल देशिकेन्द्रः ।
आसादितोऽयं महतः प्रयत्नात्
स चेन्न रोचेत न वीक्षतेऽन्यः ॥ ४६ ॥

अहं बहूनामनभीष्टकार्ये
न कारयिष्ये हि महानिबन्धनम् ।
किञ्चात्र संशीतिरभून्ममातो
यदेककार्ये बहवः प्रतीपाः ॥ ४७ ॥

भवन्निदेशाद्भगवान्स नन्दनः
करिष्यते भाष्यनिबन्धमीप्सितम् ।
स ब्रह्मचर्यादुररीकृताश्रमो
मतिप्रकर्षो विदितो हि सर्वतः ॥ ४८ ॥

स नन्दनो नन्दयिता जनानां
निबन्धमेकं विदधातु भाष्यके ।
न वार्तिकं तत्र परप्रतिज्ञां
2व्यघात्प्रतिज्ञासहितामदीक्षः ॥ ४९ ॥

आदिश्येत्थं शिष्यसङ्घं यतीन्द्रः
प्रोवाचेत्थं नूत्नभिक्षुं रहस्तम् ।
भाष्ये भिक्षो मा कृथा वार्तिक​ त्वं
नेमे शिष्यास्सेहिरे दुर्विदग्घाः ॥ ५० ॥


1अ. अथो ; क. अतो । 2अ. प्रतिज्ञां सहि नूलदीक्षः* अ. अथो; क. अतो । अ. प्रतिज्ञां सहि नृत्नदीक्षः