पृष्ठम्:शङ्करविजयः.djvu/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति
86
शङ्करविजये
86
शङ्करविजये

आचार्यवाक्येन विधित्सितेऽस्मिन्
विघ्नं 1यदन्ये व्यधुरुत्ससर्ज ।
2शापं ततोऽस्मिन्कृतमप्युदौरै-
स्तद्वार्त्यिकं न प्रसरेत्पृथिव्याम् ॥ ५७ ॥

नैष्कर्म्य​सिद्ध्याख्यनिबन्धमेकं
कृत्वात्मपूज्याय निवेद्य शप्त्वा ।
विश्वासमुत्पाद्य पुनर्बभाषे
स विश्वरूपो गुरुमात्मदैवम्3 ॥ ५८ ॥

न ख्यातिहेतोर्न च लाभहेतो-
र्नाप्य​र्चनायै विहितः प्रबन्धः ।
नोल्लङ्घनेएयं वचनं गुरूणां
नोल्लङ्घने स्याद्गुरुशिष्यभावः ॥ ५९ ॥

पूर्व गृही4त्वेव न तत्स्व​भावो
न बाल्य​मन्वेति हि 5यौवनं तत् ।
न यौवनं वृद्धमुपैति तद्वत्
व्रजन्हि पूर्वस्थितिमौझ्य​ गच्छेत् ॥ ६० ॥

अहं गृही नात्र विचारणीयं
किं तेन पूर्वं मन एव हेतुः ।
बन्धे च मोक्षे च मनोर्विशुद्धो
गृही भवेद्वा उत मस्करी वा ॥ ६१ ॥

नास्त्येव चेदाश्रम उत्तमादिः
कथञ्च तत्प्राप्तिनिवृत्तिकामी ।
प्रतिश्रवौ नौ कथमल्पकालौ
न हि प्रतिज्ञा भगवन्निरुद्धा6 ॥ ६२ ॥


1अः यदान्वे । 2अ. शापं विधाता ; क. शापः कृतोऽस्मिन् कृतमप्युदारैः ।

3अ. देवम् । 4अ. गृहीत्येव​ ।

5का. यौवनेन । 6का. निरूढा ।* अ. यदान्बे । अ. शापै विधाता ; . शापः कृतोऽस्मिन् क्र कृतमप्युदार भ. देवम् * अ. गृहीत्येव ।

  • का. यौवनेन । का. निरूढा ।